________________
[है० ७.१.१५२.] अष्टादशः सर्गः ।
४४९ यावन्तः । तावन्तः । एतावन्तः । अत्र "यत्तद्" [१४९] इत्यादिना डा. वादिरतुः ॥ यति । तति । कति । इत्यत्र “यत्तद्' [१५०] इत्यादिना डैतिः ॥
सप्ततय्याम् । अत्र “अवयवात्तयट्" [१५१] इति तयह ॥ शालिनी छन्दः ॥ द्वितयं द्वयेन त्रितयं त्रयेण युयुधे भटानामभिलाषुकाणाम् । द्विमयं स्वजीवं यशसः परस्य द्विमयं स्वजीवस्य यशस्तु नैव ॥४७॥
४७. पूर्वार्धं स्पष्टम् । कीदृशानां भटानाम् । परस्य शत्रुसंबन्धिनो यशसो द्वौ गुणौ केयावस्य स्वजीवस्य तहिमयं स्वजीवं स्वजीवितव्य. मभिलाषुकाणामिच्छतां तथा स्वजीवस्य संबन्धिनौ द्वौ गुणौ मूल्यमस्य यशसः क्रयस्य तत्परस्य शत्रोः संबन्धि यशस्तु नैवाभिलाषुकाणाम् । स्वकीयानामल्पविनाशेन परेषां च द्विगुणं विनाशेन यत्स्वस्य द्विगुणं यशः स्यात्तदिच्छतां यत्तु स्वकीयानां द्विगुणं विनाशे परेषां चाल्पविनाशे स्वस्यैकगुणं यशः स्यात्तन्नेच्छतां चेत्यर्थः । केकिरवं छन्दः॥ द्विमयं तनोर्मूल्यमधीशवित्तं
भवतात्तमित्यालपतो भटस्य । सुभटे शिरश्छिन्दति तस्य रायो
द्विमयं वपुः क्रेयममस्त भर्ता ॥४८॥ ४८. भर्ता सुभटस्वामी तस्यारिशिरश्छेदकस्य स्वसुभटस्य वपुरमस्ताज्ञासीत् । कीदृशम् । द्वौ गुणावस्य शेयभूतस्य वपुषस्तद् द्विमयं द्विगुणं रायो द्रव्यस्य केयं क्रेतव्यम् । क सति । सुभटे । किंभूते । भटस्यारिवीरस्य शिरश्छिन्दति । यतः। किंभूतस्य । आलपतो वदतः ।
१ ए यं थे. २ सी °स्य । रा. १ एन्तः । ए'. २ ए डति । स. ३ सी गुणवि. ४ सी यत् स्या. ५ ए °स्य ल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org