________________
हिं ०७.१.१४४.] अष्टादशः सर्गः ।।
४४७ राजानोस्येभैः शतमात्रैः शतयोधै
रग्रेभूवन्द्राग्द्विवितस्त्यूजितकुम्भैः। बाणांश्चास्यन्षट्छतमात्रात्तधनुष्का
स्त्रिंशन्मात्रान्विशतिमात्रान्दशमात्रान् ॥४४॥ ४४. अस्यान्नस्याने द्राग्राजानोभूवन् । कैः सह । इभैर्गजैः । किंभूतैः । शतमात्रैः शतप्रमाणैस्तथा शताः शतप्रमाणा योधा येषु तैरनेकयोधशतान्वितैस्तथा द्वे वितस्ती मानमेषां द्विवितस्ती(स्ति?) मानमेषां स्यादिति वा द्विवितस्तयो वितस्तिद्वयमात्रमुच्छ्रिताः परिमण्डला वेत्यर्थः। ऊर्जिता बलिष्ठाः कुम्भाः कुम्भस्थलानि येषां तैस्तथास्याग्रे वर्तमानाः पँट्छतानि मानमेषां स्यात्पछतमात्रा य आत्तधनुष्का धनुर्धरास्ते च बाणानास्यंश्चिक्षिपुः । कतिसंख्यान् । त्रिंशद्विंशतिश्च दश च मानमेषां स्यात्तांस्तथा ॥ • तालदनम् । इभहस्तद्वयसेन । हस्तमात्र । इत्यत्र “वोचं." [१४२] इत्यादिना वा दनवयसटौ ॥ पक्षे मानद ॥
हस्तफलम् । अन्न “मानाद्०" [१४३] इत्यादिना प्रस्तुतस्य मात्रडादेर्लुप् ॥ केचित्त मानमानान्मात्रटं तस्यासंशये लुब्बिकल्पं चेच्छन्ति । शतयोधैः । शतमात्रैः ॥
द्विवितस्ति । इत्यत्र “द्विगोः संशये च" [१४४] इति मात्रडादेल्प् ॥ अन्ये तु रूढप्रमाणान्तादेव द्विगोरिच्छन्ति । तन्मते पट्शतमात्र इत्यत्र मात्रटो न हुँ ॥ १ वी वितिरफूजि . २ ए तरयूजि. ३ की श्वास्यान्पट्कत. ४ ए°नुष्वास्त्रिं.
१ सी °तप्र. २ ए सी पां स्या. ३ बी पट्शता. ४ बी पट् शत'. ५सी स्यात्तथा. ६ बी सी यशटौ. ७ सी तमा. ८ बी त्रैः । द्वयिस्ति. ९ ए °न्ति । दश्या'. १० सी पू । त्रिं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org