SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ [ है० ७.१.१२४.] अष्टादशः सर्गः। ४४१ योनुरागस्तस्येच्छा । यद्वा कार्कीककीर्तयो ये गुरवस्त्वत्पित्रादयस्तेषु या मम लौहितिकानुरागेच्छा सा विशङ्कटा विस्तीर्णास्ति । मद्गुरुभिस्त्वद्गुरुभिश्च त्वं मम भलापित इति त्वां न हन्मीत्यर्थः॥ अशार्करेण । सैकत । इत्यत्र "शर्करादेरण'' [ ११८] इत्यण् ॥ सपन । इत्यत्रै "अः सपत्याः " [११९] इति-अः ॥ एकशालिक । इत्यत्र "एक" [ १२० ] इत्यादिना-इकः ॥ गौर्णिक । कौलिशिक । ऐकशालिकम् । अत्र "गोण्यादेश्वेकण्" [१२] इतीकण् ॥ कार्कीक । कार्किक । लौहितीक । लौहितिक । इत्यत्र "कर्क०" [१२२] इत्यादिना टीकणिकणौ ॥ विशाल । विशङ्कटा । इत्यत्र “वेर् ०" [ १२३ ] इत्यादिना शालंशङ्कटौ ॥ वसन्ततिलका ॥ विकटोत्कटप्रकटवास्तवीषि यं रणसंकटेवकटधन्वपाणिना । निकटेभिभूतमवटीटिनं मयावकुटारमौलिरवटीट पश्य तम् ॥३५॥ ३५. रे अवटीट नासानतिमंश्चिपिटनासिक तिरस्कुर्वाण एवं संबोधयति । यद्वा रे अवटीट स्वाम्यभक्तत्वेनातिनिन्द्यत्वाल्लोकानां नासानतिहेतो यं भैमि त्वं स्तवीषि । कीडक्सन । विकटा विस्तृतोत्कटाधिका प्रकटा सर्वलोकस्य प्रकाशा च वाग्यस्य सः । तं भैमि त्वं पश्य । कीदृशम् । अवकटमारोपितत्वान्नतं धन्व यत्र स तथा पाणिर्यस्य तेन १ ए धनुपा. १बी म लोहि. २ बी म भिला. ३ ए °त्र अ स. ४ एणिकः । कोलि'. सी ‘णिकः । को'. ५ ए सी शिकः । एक. ६ ए क । लोहि'. ७ सी क । लोहिये. ८ बी सी विसङ्क. ९बी सी लसङ्क. १० बी मंचिपि. ११ ए °श्चिपुट'. १२ सीण इति सं. १३ ए नां सा. १० ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy