________________
व्याश्रयमहाकाव्ये
[कुमारपालः]
साप्तपदीनं सप्तभिः पदैरवाप्यं सख्यं पुषाण पोषय । अद्यप्रातीनधेनुं न्वद्य प्राता विजनिष्यमाणां धेनुं यथा कश्चित्पुष्णाति । तथाविद्यमानानि षडक्षीण्यस्मिन्नषडक्षीणस्तस्मिंस्त्वां मां च विनान्येन केनाप्यज्ञात इत्यर्थः । इह कृतपूर्वे मत्र आश्वलंकर्मणेलंकर्मीणः समर्थो भवामुं मदीयं मत्रमविलम्ब कुर्वित्यर्थः ॥ इन्द्रवज्रा छन्दः । रुदितमिव वचोयाशितंगवीने न समीचीनममस्त राडुदीच्याः । सम्यग्भेदितयैव मन्यमानः सचिवं सोश्वतयाँश्वकानिवोचैः॥२९॥
२९. उदीच्या उत्तरस्या दिशो राडान्नोस्यामात्यस्य वचः समीचीनं युक्तं नामंस्त । यथाशिता गावोस्मिन्नाशितंगवीनमरण्यं तस्मिन्नुदितं निष्फलत्वात्समीचीनं लोको न मन्यते । यतः कीदृक् । सचिवं सम्यग्निश्चितं भेद (दि)तयैव भेदोस्यास्ति भेदी तद्भावेनैव भैमिना भेदितमेवेत्यर्थः । मन्यमानः । यथा कश्चिदुच्चैरुन्नतानश्वकानश्वकाख्यानश्वसदृशान्पशुभेदानश्वस्य प्रतिकृतीः काष्ठादिमयान्प्रतिच्छन्दकान्वा भ्रान्याश्वतयाश्वा अमी इति मन्यते । अनेनोपमानेनान्नस्य भ्रान्ततासूचि ॥
अभ्यमित्रीये । अभ्यमिव्यः । अभ्यमित्रीण । इत्यत्र "अभ्यमित्रमीयश्च" [ १०४ ] इतीययेनाः॥
१ए °चोस्यशि. २ बी स्यासितं . सी स्यासितग'. ३ बी सी भेदत. ४ बी यास्वका?.
१ एा विज. २ बी सी स्तस्मिस्त्वां. ३ सी इत्यकृ. ४ सी कमीणोलं. ५ बीमणोलं. ६ बी रस्यां दि. ७ सी राजान्नो'. ८ सी 'नं लोको. ९ बी शितगा'. १० बी शानशु. ११ ए बी कृतीका. १२ बी काष्ठम°. १३ बीन्त्याश्वा इमी. १४ ए सी मित्र्य । अ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org