SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ (है० ७.१.१०४.] अष्टादशः सर्गः । ४३५ अनुगवीन । इत्यत्र “अनुग्वलम्" [ १०२ ] इतीनः ॥ अध्वन्यम् । अध्वनीनम् । अत्र "अध्वानं येनौ” [ १०३ ] इति येनौ । उपजातिः ॥ ___ अथ स्वोक्तस्यैव रणाकरणस्य विशेषेण द्रढनाय यस्य सैन्यस्य बलेनानो युद्धायोत्सहते तन्निराकुर्वन्नाह । तवाभ्यमित्रीणरणेभ्यमित्र्यो भाव्यभ्यमित्रीय इहाथ वा कः । एष्वागवीनेषु समांसमीनाद्यश्वीनधेनुष्विव निःसहेषु ॥२७॥ २७. अथ वेति कृतकाभ्युपगमे । त्वत्संतोषीय युद्धं किल मयाभ्युपगतमित्यर्थः । परं हेभ्यमित्रीणामित्राभिमुखमलंगामिन्निह भैमावभ्यमित्रीयेमित्रस्य तवाभिमुखमलंगामिनि सत्येषु प्रत्यक्षेषु तव भटेषु मध्ये को भटो रणेभ्यमित्र्योमित्रस्य भैमेरभिमुखमलंगामी भावी भविध्यति । यतः कीदृक्षु । आगवीनेष्वागोप्रदानं का(नका?)रिण आगवीनाः कर्मकरभेदास्तत्तुल्येषु । एतदपि कुत इत्याह । यतः समांसमीनाः प्रतिवर्ष गर्भग्राहिण्यो विजायमाना वा तथाद्यश्वीना अद्य श्वो वा विजनिष्यमाणा एवं नाम प्रत्यासन्नप्रसवा इत्यर्थः । द्वन्द्वे ता या धेनवस्ताविव निःसहेष्वसमर्थेषु ॥ तदेवं सर्वथा युद्धं निषिध्य विधेयमाहे ॥ भैमौ ततः साप्तपदीनमद्यप्रातीनधेनुं नु पुषाण भूत्यै । मत्रेषडक्षीण इहाश्वलंकर्मीणो भवालंपुरुषीणशक्ते ॥ २८ ॥ २८. अलंपुरुषाय पौरुषोपेतायालंपुरुषीणा शक्तिर्यस्य हे अलंपुरुषीणशक्ते महापरामिंस्ततो हेतोभूयै राज्यादिलक्ष्म्यर्थं भैमौ विषये । १ ए समास'. २ बी हास्वलं'. ३ ए शक्तैः । अ. सी शक्तै । अ. १ एषा यु. २ एणामि'. ३ बी मित्र्यस्य. ४ बी सी स्ताश्विव. ५ बी ह । भेमौ. ६ बी °लं पौरुषा. ७ ए क्रमस्त. सी क्रमस्त'. ८बी तो भूत्यै. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy