________________
४३२
व्यानयमहाकाव्ये
[कुमारपालः]] यद्येवं तर्हि किं कार्यमित्याह । राजन्मौ(न्मो?)ौजसा निजानां सर्वशरावीणानभोजिनां त्वम् । पतनाय भवेनिजापि पट्याप्रपदीनानुपदीनिका च तुङ्गा ॥ २३ ॥
२३. हे राजंस्त्वं निजानां पूर्वजानां पतनाय स्वविनाशेन भ्रंशाय मा भूः । केन कृत्वा। उजाँजसोर्जया बलेन यदोजस्तेजस्तेन बलावलेपेनँ । कीदृशाम् । सर्वशरावीणानि बहीयस्त्वेन सर्वशरावान्व्याप्नुवन्ति यान्यन्नानि तोजिनां त्वत्सहशस्यापत्यस्य श्राद्धादौ नानापिण्डप्रदत्वेन तृप्तानामित्यर्थः। सर्वथा समर्थन न्यायिना च भैमिना सह रणं मा कृथा इत्यर्थः । स्वोक्तमेवार्थान्तरेण द्रढयति । निजापि पटी वस्त्रमाप्रपदीना प्रपदं गुल्फ यावयाप्नुवती सत्यति विस्तीर्णत्वेन गतेः रखलयित्रीत्वात्पतनाय भवेत्तथा निजाप्यानुपदीनिका कुत्सितानुपदं बद्धा पदप्रमाणा पादुका तुङ्गात्युच्चा सती पतनाय भवेत् ॥
सर्वपथीन । सर्वाङ्गीण । सर्वकर्माण। सर्वपत्रीण। सर्वपात्रीण। सर्वशरावीण। इत्यन्न “सर्वादेः०" [९४] इत्यादिना-ईनः ॥ आप्रपदीना । इत्यत्रं “आमपदम्" [९५] इतीनः ॥ आनुपदीनिका । इत्यत्र “अनु०" [९६] इत्यादिनेनः॥ औपच्छन्दसकं छन्दः॥
अथ वृत्तत्रयेण त्वत्पूर्वजैरपि चुलुक्यैः सह विग्रहो न कृत इति भणन् कृताया मैत्र्याः फलं चोपदर्शयन् स्वोक्तं रणाकरणमेवं द्रढयति ।
१ ए गोजोज. २ ए तुरङ्गा. बी तुझे । हे.
१ बी सी ततः किं. २ ए उजोज'. ३ ए "स्तेजव'. सी °रतेन ब. ४ ए °न । स. ५ ए नि वाही . ६ सी न तृ. ७ ए वान्वाप्नु. ८ बी दत्तेन. ९ एन शायि'. १० सीदं यद्वा प. ११ ए बी पाटुका. १२ वी पा. १३ ए वादिरित्या . १४ बीत्र प्र. १५ सी स वि. १६ बी व दृढति. १७ सी °ति । आया.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org