SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ [ है० ७.१.९४.] अष्टादशः सर्गः। ४३१ स्तर्हि किमित्यारेत्याह । यतः स्वदेशप्रालुः स्वदेशस्य कष्टमसहमानः । एतेन त्वया विरोधोयमत्रागादित्यस्य न्यायित्वमुक्तम् ।। हिमेलु । इत्यत्र । “हिमाद्." [९०] इत्यादिना-एलुः ॥ बलूल । वातूल । इत्यत्र "बल." [९१] इत्यादिनोलः ॥ शीतालुः । उष्णालुः । तृप्रालुः । अत्र “शीत.” [९२] इत्यादिनालुः ॥ यथामुखीने । संमुखीनः । अत्र “यथा.”[९३] इत्यादिनेनः ॥ उपजातिः ॥ अयं मे सेवाद्यर्थमत्रायात इति न वाच्यं यतः । स सर्वपत्रीणकसर्वकर्मीणपत्तिकः सर्वपथीननागः । द्राक्सर्वपात्रीणधनोस्ति सर्वाङ्गीणप्रभः प्राग्भवदाज्यपेक्षी॥२२॥ २२. स भैमिाक्प्राक्पूर्व भवदाज्यपेक्षी तव संग्राममपेक्षमाणोस्ति । चेत्त्वं रणं प्रारब्धवांस्तदायमतितरां रणकरणे प्रगुण एवास्त इत्यर्थः । यतः सर्वपत्रीणका अज्ञाताः सर्वपत्राणि व्याप्नुवन्तः सर्ववाहनारोहणशक्ता इत्यर्थः । सर्वकर्माणाः सर्वकर्माणि व्याप्नुवन्तः सर्वकार्यकरणक्षमाश्वेत्यर्थः । पत्तयः सेवका यस्य सः । तथा सर्वपथीना बहीयस्त्वात्सर्वान्पथो व्याप्नुवन्तो नागा गजा उपलक्षणत्वादश्वा रथाश्च यस्य सः । एतेन सर्वसैन्यसंपदुक्तिः । तथा सर्वपात्रीणं बंहीयस्त्वात्सर्वाणि पात्राणि देवस्थानानि व्याप्नुवद्धनं यस्य सः। एतेन कोशसंपदुक्तिः । तथा सर्वाङ्गीणा सर्वाङ्गं व्याप्नुवती प्रभोत्साहादिसंपदुद्भवं तेजो यस्य सः॥ १२ १ ए ज्यपक्षी. २ बी क्षी । तव. १ वी सी तृष्णालु:. २ सी लुः यथा'. ३ ए ने। हंमु.४ सी भैमिः प्राक्पूर्व द्राक् भं'. ५ बी पेक्ष्यमा ६ सी सः । यथा. ७ एथीनां वं. ८ सी वीणि पत्रा. ९ एत्रीणां वही . १० सीतेनास्य सं°, ११ बीङ्गिन्या. १२ एमीणां स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy