SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [ कर्णराजः] का इत्याह । गायनैर्गीतशिल्पैनरैः सह नर्तकीर्तनशिल्पा गाथिका गानशिल्पाश्च विलासिनीः । कीदृशीः । कान्त्याङ्गाभरणादिद्युत्या नभसो रजकीर्वस्त्रस्येव निर्मलीकारकत्वान्नानारागोत्पादनाद्वा रजकस्त्रीतुल्याः ॥ नर्तकीः । खनक्याः । रजकीः । अत्रे "नृत्खन्०" [६५] इत्यादिनाकट् ॥ गाथिकाः । अत्र "गस्थकः" [६६ ] इति थकः ॥ गायनैः । अत्र "टनण्” [ ६७ ] इति टनण् ॥ प्रवकैः सरकैरापल्लवकै राजवल्लभैः। पुत्रनाम्न्युद्यतः सोभाद्धायनैर्नु सुहायनः ॥ ३८॥ ३८. स कर्णः पुत्रनाम्नि पुत्रनामकरण उद्यतः सन् राजवल्लभैरन्तरङ्गपार्षद्यैः सहितोभात् । कीदृशैः । प्रवकैः पुत्रनामकरणोत्सवहर्षेण साधु प्रवमाणैस्तथा संरकैः सविलासं गच्छद्भिस्तथापल्लवकैर्हितत्वादापदां साधु छेदकैः। यथा सुहायनोखिलसस्यनिष्पत्तिहेतुत्वेन शोभनः संवत्सरः प्रवकैः साधूद्गच्छद्भिः सरकैः प्रसृमरैरापल्लवकैर्दुष्कालोच्छेत्तभी राज्ञां वल्लभैयिनै/हिभिर्भाति ॥ हायनः । हायनैः । अत्र "ह:" [६८ ] इत्यादिना टनण् ॥ प्रवकैः । सरकैः । लवकैः । अत्र "सृ०" [ ६९ ] इत्यादिनाकः ॥ गायन्त्यो वीरभूरन्तिवंदसौ नन्दकोस्त्विति । नाम वृद्धाः कुमारस्य जयसिंहेत्यथ व्यधुः ॥ ३९ ॥ ३९. अथ वृद्धाः कुलस्थविराः कुमारस्य जयसिंहेति नाम व्यधुः । १ सी यन्यो वी. २ बी रतिव'. ३ डी वदंसौ. " १ए दृशी। का. २ए प्र भृत्ख'. ३ ए अवर्ग'. ४ ए सी लतैर. ५ ए रकै स. ६ ए सी डी लशस्य'. ७ए भनासं. ८ एलवोके?'. ९ बी कैदुष्का. १० बी °च्छेतृभी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy