SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ याश्रयमहाकाव्ये [कुमारपाल सांयुगीनमनङ्गस्य काथिकं गौणिकं मधु । देवानां देवदेवत्वं पुष्ट्यै हविरिवाभवत् ॥ १२१॥ १२१. मधु मद्यमनङ्गम्य पुष्टयै पोषायाभवत् । यतोनङ्गस्य काथिकं कामोद्दीपकत्वेनानङ्गकथायां साधु । तथानङ्गस्य गौणिक गुण उपकारे साधूपकारकं तथानङ्गस्य सांयुगीनं संयुगे रणे साधु । देवदेवत्यं हविरिव । देवताशब्देन देवस्य हविरादेः प्रतिगृ(ग्रोहीता स्वामी संप्रदानमुच्यते । देवाश्च ते देवताश्च ताभ्य इदं हव्यं यथा देवानां पुष्टयै स्यात् ॥ सार्वजन्यः । सार्वजनीन । इत्यत्र "सर्व." [१९] इत्यादिना ग्य ईनञ्च ॥ प्रातिजनीनँ । सांयुगीनम् । अत्र "प्रनि०" [ २० ] इत्यादिनेनन् । काथिकम् । गौणिकम् । अत्र 'कथादेरिकण" [२१] इतीकण् ॥ देवदेवत्यम् । अत्र "देवता०" [ २२ ] इत्यादिना यः ॥ तदार्घ्यपाद्यमातिथ्यं प्रियाभ्यः पूर्वतोधिकम् । आसेदुः कामिनोहल्याविहल्यातः फलं यथा ॥ १२२ ।। १२२. तदा मद्यपानकाले कामिनः प्रेयसीनां स्मरातुरतया प्रियाभ्यः सकाशादासेदुः प्रापुः । किमित्याह । आतिथ्यम् । किमातिथ्यमियाह । अर्घ्यपाद्यमर्घः पूजोपचारस्तस्मायिदमयं स्रग्विलेपनादि तथा पादायेदं पाद्यमुदकादि । द्वन्द्वे तत् । कीदृशमासेदुः । १ वी काविकगा. २ बी सेदु का'. १ ए °स्य सं. २ बी न हे देवस्य. ३ सी देवस्य. ४ ए देता. ५ वी इदह'. ६ सी जनी. ७ सी नता । सां. ८ बी कायिक. ९ ए दिनेयः.. १० ए तथा म. ११ बी पाने का १२ सी किमि'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy