SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४०४ व्याश्रयमहाकाव्य [कुमारपाल.] आना । इत्यत्र “णोन्नात्" [१०] इति णः ॥ हृद्य । पद्य । तुख्यम् । मूल्य । वैश्यस्य । पथ्यम् । वयस्था । धेनुष्यया । गार्हपत्येन । जन्य । धर्म्यः। इत्येते "हृद्यपद्य०" [११] इत्यादिना निपात्याः ॥ नाव्यैः । विष्यः । अत्र “नौ०" [ १२ ] इत्यादिना यः ॥ न्याय्यम् । अर्थ्यम् । अत्र "न्याय.” [ १३ ] इत्यादिना यः ॥ मत्यम् । मद्य । अत्र “मत०" [ १४ ] इत्यादिना यः ॥ कृता सामन्यया मद्यातिथेय्यासीत्तथा प्रिया। वासतेय्यां न पाथेयस्वापतेयं यथा नृणाम् ॥ ११८ ॥ ११८. मद्यातिथेयी मद्यमेवाह्लादकत्वादातिश्यं तथा प्रियस्य प्रियाभीष्टासीद्यथा पाथेयस्वापतेयं संबलद्रव्यं नृणां न प्रियं स्यात् । यतः कीदशी । सामन्यया सामनि सामोक्तौ साध्व्या प्रियया वासतेय्यां वसतौ साध्व्यां रात्रौ कृता प्रियं प्रति । संबलद्रव्यं किल पथि जीवनतुल्यत्वान्नृणामतिप्रियं स्यात्तस्मादपि प्रियया स्वयंकृतत्वेन मद्यातिथेयी प्रियस्यातिप्रियाभूदित्यर्थः ।। सामन्यया । इत्यत्र "तत्र साधौ” [१५] इति यः ॥ पाथेय । आतिथेयी । वासतेय्याम् । स्वापतेयम् । अत्र "पथि." [१६] इत्यादिनैयण ॥ भाक्तशालिभुवं हालां पीत्वा पारिपदैः प्रियैः । नापारिषद्यं पार्षद्याः पार्षदेचिरे स्त्रियः ॥ ११९ ॥ १ सी त्वा परि'. . १ ए वशस्य. २ सी यः। कृता. ३ ए यः । कृता. ४ बी श्रेयाम'. ५ एकत्वां ति. ६ ए दृशीः सा. ७ ए साध्या प्रि. ८ ए साध्यां रा. ९ ए सामान्य. १० बीत्र सा. ११ ए दिनेय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy