________________
४०० याश्रयमहाकाव्ये
[कुमारपाल:]. धुर्यो वामधुरीणाः सर्वधुरीणा मनोभुवः ।
धुरीणैः सर्वधुयैश्चेशै रन्तुं प्रावृतन् स्त्रियः ॥ १११ ॥ १११. स्त्रिय ईशैः सह रन्तुं प्रावृतन् । कीदृश्यः। मनोभुवो धुर्यो धुरं गाढरिरंसादिकरणरूपं कार्यप्राग्भार वहन्त्यस्तथा वामधुरीणा यथा वामधुरां वहन्द्वेषभः सातिशयं भारं वहति तथा सातिशयं स्मरकार्यप्राग्भार वहन्त्य इत्यर्थः । किं बहुना मनोभुवः सर्वधुरीणाः । किंभूतैः । ईशैर्मनोभुवो धुरीणैः सर्वधुर्यैश्च ॥
द्विरथ्येषु । युग्य । प्रासङ्गन्याः । अत्र “वहति०" [ २ ] इत्यादिना वहत्यर्थे "यः" [१] इति यः ॥
धुर्येषु । धौरेयाः । अत्र “धुरो यैयण" [ ३ ] इति यणौ ॥ कश्चित्तु यदएयकणावपीच्छति । धुर्यः । टित्वादन ङीः । धौरेयकताम् ॥
वामधुरीणाः । सर्वधुरीणाः । अत्र "वामाद्यादेरीनः" [ ४ ] इतीनः ॥ सर्वधुर्यैः । अत्रे यप्रत्ययोपीति कश्चित् ॥ धुरीणैः । अत्र केवलादपीन इत्यैन्यः ॥ - रामेण हालिकेनैकधुरीणो हालयाधिनोत् ।
रेवत्यैकधुरां कान्तां कोप्यूर्जन्गौसैरिकः ॥ ११२ ॥ - ११२. कोपि युवा कान्तां हालया सुरयाधिनोदप्रीणात् । सुरामपाययदित्यर्थः। कीदृग् । ऊर्जन्बलिष्ठः । यथासैरिकः सीरं हलमवहन * १ ए. रीणा सर्व धु. २ ए नोभ्रुवा । धु'. ३ ए Wश्चशै. बी यैश्चशै रन्तं प्रा. ४ ए कान्ता को'. ५ एजन्मोर्च'. बी जन्ौन्वसै.
...१.५ °य विशैः. २ बी नोभवो. ३ सी र रि. ४ ए न्वृषः सा. ५ ए शयस्म. ६ ए हन्त इ. ७ ए नोभवो. ८ ए धुणैश्च. ९ बी थे इ. १० ए धुर्य । टि. ११ सीरीणा । अं. १२ बीत्र प्र. १३ ए त्यनः । रा. १४ ए सी कान्ता हा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org