SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ [ है० ७.१.१.] सप्तदशः सर्गः। ३९९ द्भिर्यजमानैर्ऋत्विकर्माहक्रित्विग्भिरेव वा संकुच्य स्थीयते । कीदृशैः सद्भिः। कूपप्रवेशनमर्हति कौपीनः । कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्तते । अपगतं कौपीनं चीवरखण्डं येषां तेपकौपीना नग्ना अत एव लज्जया शालीनाः शालाप्रवेशमहन्तो ये तैः ॥ छैदिकः । भैदिकः । अत्र “छेदादेर्नित्यम्" [ १८२ ] इतीकण् ॥ वैरङ्गिकः । अत्र "विरागाद्विरङ्गश्च" [१८३ ] इतीकण् विरागस्य विरङ्गश्च ॥ शीर्षच्छेद्यः शैषच्छेदिक । इत्यत्र “शीर्ष०' [ १८४ ] इत्यादिना वा यः ॥ शालीनैः । कौपीन । आविजीनैः । एते "शालीन०" [ १८५ ] इत्यादिना निपात्याः ॥ चतुर्विंशः पादः ॥ गोविन्दोर्युग्यधुर्येषु द्विरथ्येष्विव हारिषु । प्रासङ्ग्या नु भधौरेया न धौरेयकतां दधुः ॥ ११० ॥ ११०. इन्दोर्गोषु कान्तिषु हारिषु दीप्रतया मुख्येषु सत्सु भैधौरेया धुरं यानमुखं भारं वा वहन्ति धौरेया मुख्यवृषभा उपचारादन्येपि मुख्या उच्यन्ते । भेषु नक्षत्रेषु धौरेया दीप्रतया मुख्याः शुक्रादयो धौरेयकतां मुख्यतां न दधुः । इन्दुकनिस्तेजसोभूवन्नित्यर्थः । यथा प्रासङ्गयाः प्रासङ्गो यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते तद्वहन्तो दम्यवृषा धौरेयकतां मुख्यवृषभतां न दधति । केषु सत्सु । गोषु वृषभेषु । कीदृक्षु । द्विरथ्येषु बलिष्ठत्वाद्वौ रथौ वहत्स्वत एव युग्यानां युगं वहती घृषाणां मध्ये धुर्येषु मुख्येषु ॥ - १ सी शैः । कू'. २ ए वरेणे. ३ सी शनम'. ४ ए ङ्गस्य । शी. ५ सी ते शलीत्या. ६ सी भधोरेया मुख्य. ७ए तयं मु. ८बी दन्यवृ. ९ए तां नृपाणां. १० सी वृषभाणां. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy