________________
[ है. ६.४.१७४.] सप्तदशः सर्गः ।
३९५ पञ्चका नु शकुनयः काप्युड्डीय तमांस्ययुः । इन्दौ निदधति व्योनि विंशति त्रिंशतं करान् ॥१०२॥ १०२. पञ्चेति संख्या मानमेषां पञ्चैवे वा पञ्चका नाम शकुनैयः पक्षिणो यथा क्वाप्युड्डीय यान्ति । शिष्टं स्पष्टम् ॥ पञ्चकाः । अत्र "नाम्नि" [१७२ ] इति कः ॥ विंशतिम् । त्रिंशतम् । एतौ "विंशत्यादयः" [१७३ ] इति निपात्यौ ॥
ब्राह्मणैाह्मणास्त्रैशचात्वारिंशैरिवानधैः ।
जहषुर्यज्वनां पत्युरोषधिद्योतिभिः करैः ॥ १०३ ॥ १०३ यज्वनां पत्युरिन्दोः करैः कृत्वा ब्राह्मणा ऋत्विजो जहषुः । यत ओषधिद्योतिभिः सोमवल्ली नाम महौषधी यदेन्दुः क्षीयते तदा प्रतिदिनमेकैकपत्रपातेन क्षीयते । यदा विन्दुर्वर्धते तदासौप्येकैकपत्रवृद्ध्या वर्धते । सा च यागेषु महोपकरणमिति ऋत्विग्भिगिरिषु गवेष्यमाणासौ चन्द्रांशुभिः प्रकाश्यत इत्य॒त्विजां हर्ष इत्यर्थः । यथा ब्राह्मणैर्वेदविशेषैः कृत्वा स्वसिद्धान्ततया ब्राह्मणा हृष्यन्ति । किंभूतैः । त्रिंशचत्वारिंशञ्चाध्याया मानमेषां तैस्तथानधैर्निष्पापैः ॥ त्रै(त्रै!)शैच्चा(चा?)त्वारिंशैः। एतौ "त्रैश०" [१७४] इत्यादिना निपात्यौ ॥
१ ए का मु श. २ एयः काप्यु. ३ ए सी शचत्वा'. ४ बी जहपुर्यज्वानां.
१ सी चैवं प. २ बी व प. ३ ए °नय प. ४ सी °न्ति । प. ५ ए शति । त्रिं. सी शतं । त्रिं. ६ बी यज्वानां. ७ ए रिन्दो क. ८ बी हृषु । य. ९ए कैप. १० ए दा साप्ये. ११ बी इत्यत्वि'. १२ ए शत्वाध्या. १३ ए सी पैः । त्रिंश : १४ बी शच्चत्वा. सी शव्यत्वा. १५ ए तो त्रैश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org