________________
३९४ व्याश्रयमहाकाव्ये
[कुमारपालः] पञ्चकैः । अष्टकं वासः । अष्टके । अत्र "सोस्य० [ १६८ ] इत्यादिना यथाविहितं कः ॥ दौणिकी । इत्यत्र "मानम्" [ १६९ ] इतीकणे ॥
द्विषाष्टिका वरस्तोत्रैरष्टिकाधीतयोष्टकैः । बभन्तः पञ्चकान्संघान्द्विजराज जगुर्द्विजाः ॥ १०१॥
१०१. द्वे षष्टी वर्षाणि जीवितमानमेषां द्विषाष्टिका अतिवृद्धा द्विजो ऋत्विजो द्विजराजं चन्द्रं जगुर्गायन्ति स्म । यो हि येषां राजा स्यात्स तैर्गीयते । कीदृशाः सन्तः । अष्टावृचो मानमेषां तैरष्टकैः षभिर्वरस्तोत्रैः सोमस्तुतिरूपषऋगष्टकमयेन बृहता स्तोमेन कृत्वेत्यर्थः । अष्टौ रूपाणि वारा मानमस्या अष्टिका साधीतिः पाठो येषां ते स्तोत्रस्वरूपाणि षड्नगष्टकान्यष्टौ वारान्पठन्त इत्यर्थः। तथा पञ्चावयवा मानमेषां पञ्चकान्संघानजौघान्बन्धन्तः । किलायुष्टोमयाग आयुवृद्ध्यर्थं परमायुभिरेव यज्वभिः क्रियते तत्र च तैः पूर्णिमाचन्द्रोदय आलम्भाय पञ्चाजान्यूपस्तम्भे बनद्भिरष्टाचत्वारिंशदृग्मयमष्टाचत्वारिंशाख्यं महास्तोममष्टौ वारान्गायद्भिश्च चन्द्रः स्तूयत इति याज्ञिकाः ।।
द्विषाष्टिकाः । अत्र "जीवितस्य सन्" [ १७० ] इतीकण् स च सन् ॥ पञ्चकान् । अष्टकैः । अष्टिका । इत्यत्र “संख्यायाः०" [१७१] इत्यादिना कः ॥
१ एकावीत. २ बी नन्ता प. ३ सीन्संध्यान्वि'.
१ ए अथकं. २ बी ण् । द्वेषा. ३ सी जा द्वि'. ४ बी गीयते. ५ ए सी स्तोत्र सो'. ६ ए सावीतिः. ७ सी त्ररू. ८ ए°युभिः य. बी युभिरिव. ९ बी चन्द्र श्रूये ई. सी चंद्र स्तू. १० ए काः । अं. ११ बी कैः । षष्टि. १२ सी अष्टका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org