________________
[है. ६.४.१४२.]
सप्तदशः सर्गः।
३८३
स्तेनोन्मेयमतिप्रभूतमित्यर्थः । नीलं कृष्णं तमोतयंत । किंभूतम्। निशो रात्रिकामिन्या नीलमंशुकम् । किंभूतम् । द्वाभ्यां शूर्पाभ्यां क्रीतम् । अञो लुपि द्विशूर्प वस्तु तेन क्रीतं द्विशौर्पिकम् । शिष्टं स्पष्टम् ॥
द्विकसम् । अत्र “अनाम्नि." [ १४१ ] इत्यादिनेकणः प्लुप् ॥ अद्विरिति किम् । द्विशौर्पिकम् । अनाम्नीति किम् । पाञ्चलोहितिक ॥ संख्याताविगोलपं नेच्छन्त्यन्ये । द्विषाष्टिकम् ॥
द्विसहस्रं त्रिसाहस्रं वाश्वमारुह्य मङ्खयुः । द्विसुवर्णत्रिसौवर्णिकांशुका अभिसारिकाः ॥ ८३ ॥ ८३. स्पष्टः । किं तु द्विसहस्रं द्वाभ्यां सहस्राभ्यां द्रम्मादिभिः क्रीतम्। सुवर्णो मानं सुवर्णकर्षः । अभिसारिकाः । परपुरुषैः सह रन्तुं संकेतस्थानमभिसरन्त्यः स्त्रियः॥
द्विकार्षापणिकान्पञ्चकार्षापणानवर्तयन् ।
सद्गन्धान्वित्रिबहाद्यनिष्कविस्तांश्च योषितः ॥ ८४ ॥ ८४. स्पष्टः । किं तु कार्षापणः कर्षः षोडशपणा वा । अवर्तयन् विलेपनाद्यर्थ श्लक्ष्णीचक्रुः । सद्गन्धान्कर्पूरादीन् । द्वित्रिबह्वाद्यनिष्कबिस्तांश्च द्विनिष्कास्त्रिनिष्कान्बहुनिष्कांश्च द्विविस्तांखिबिस्तान्बहुबिस्तांश्च । निष्को हेनोष्टोत्तरं शतं पलं वा । बिस्तः सुवर्णादीनां परिमाणविशेषः ॥
१ बी 'तिभू. २ बी सी भ्यां सूर्पा'. ३ बी सी द्विसूर्प. ४ सी द्विसौपि. ५ सी हितक. ६ ए सी नं स्वर्ण. ७ बी पंः । आभि. ८ ए वा । आव'. ९ बी कांन्व, १० सी स्त्रिवस्तांश्च. ११ सी कोष्टो'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org