SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ [है० ६.४.१०८.] सप्तदशः सर्गः । सान्भाविभिभूतैर्वा । यद्वा षण्मासेभ्योधीष्टैमित्रैः षण्मासेभ्योभृतै त्यैश्च । अथ तथा पाण्मास्याभिः सखीदासीभिरपि परस्परं जलच्छटा जलाघाताः प्रतीपिरे वाञ्छिताः । पतिसत्कैमित्रैर्जायासत्काभिः सखीमिः सह पतिसत्कै त्यैर्जायासत्काभिर्दासीभिश्च सहान्योन्यं जलकेलिश्चक्र इत्यर्थः । एतेन परिवारस्यापि जलकेलिरुक्ता ॥ समीनमीनत्रस्तान्या षण्मास्यमृगलोलदृक् । द्विसमीना यहीना नु लिल्ये संकुच्य भर्तरि ॥ ६४ ॥ ६४. अन्या षण्मासान्भूतः षण्मास्यः शिशुर्यो मृगस्तद्वल्लोलहक्सती संकुच्य भर्तरि लिल्ये लीना । द्विसमीना ब्यहीना नु । द्वाभ्यां समाभ्यामहोभ्यां वा निर्वृत्ता द्वे समे अहनी वा भूता भाविनी वा नु बालिकेवें । किमित्येवं लिल्य इत्याह । यतः समया वर्षेण निवृत्तः समां भूतो भावी वा समीनो यो मीनो मत्स्यस्तस्मात्रस्ता ॥ द्वैयह्निकं त्रिरात्रीणं च द्विसंवत्सरीणवत् । व्यसरत्कापि पत्यागोद्भि_समिकशीधुवत् ॥६५॥ ६५. द्विसंवत्सरीणवद्यथा काचिट्ठाभ्यां संवत्सराभ्यां निर्वृत्तं तौ भूतं वागश्चिरकालीनत्वाद्विस्मरति तथा काचित्पत्यागो भत्रपराधमद्भिर्जलकेलिरसातिरेकेणेत्यर्थः । व्यस्मरत् । किंभूतम् । द्वाभ्याम १ सी कसीधु. १ बी विभूतै . २ एभ्यो त्यै . ३ ए सी ण्मासाभिः. ४ सी लाटाः प्र. ५ वी शुयो मृ. ६ ए योग मृ. ७ ए नानु व्य. बी 'ना बु य. ८ सी निवृत्ता. ९ सी अहिनी. १० बी व । लिकि. ११ बी सी निवृत्तः. १२ ए यो नीतो म. १३ सी निवृत्तं. १४ ए भर्तप. १५ ए केलीर. १६ बी लिसा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy