________________
[है० ६.४.७१.] सप्तदशः सर्गः।
३५७ नियुक्तं दीयंत आग्रभोजनिको राज्ञ आग्रभोजनिको राजाप्रभोजनिकस्तस्य भावेन राज्ञोप्रभोजनेन मोदकादिना कृत्वा हृष्यन्ति ॥
ऐष्टीकाः । ऐष्टिकैः । आम्भसीकैः । आम्भसिक्यः । अत्र “वेष्टयादिभ्यः" [६४ ] इति वा टीकण् ॥
नास्तिकैः । आस्तिकाः। दैष्टिक । इत्येते "नास्तिक०" [ ६६ ] इत्यादिना निपात्याः ॥
ऐकान्यिक । इत्यत्र "वृत्त०' [६७] इत्यादिनेकण् ॥ अन्ये त्वपपाठादन्यत्राप्यध्ययनमात्रे प्रत्ययमिच्छन्ति । अनैकरूपिकम् ॥
एकादशान्यिक । इत्यत्र "बहु०" [ ६८ ] इत्यादिना-इकः । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति । द्वादशरूपिकैः ॥ मौदकिकाः । अत्रं "भक्ष्यं०" [ ६९ ] इत्यादिनेकण् ॥ राजाप्रभोजनिक्येन । इत्यत्र "नियुक्तं दीयते' [७० ] इतीकण् ॥
मांसौदनिकया श्राणिकेव मांसौदनिक्यपि ।
श्राणिक्येवामिलन्नार्यः सपत्नीभिर्न वापि ॥४१॥ ४१. नार्यः सपत्नीभिः सह वापि जलेष्वपि मध्ये नामिलन् । जलेषु ह्येकेन भर्ना सह जलकेलेः क्रियमाणत्वेनात्यासन्नत्वान्मिथोमेलकः सुघटः परं तत्राप्यतीर्ष्यालुत्वेन वचनालापसंमुखेक्षणाङ्गस्पर्शादिरक्षयों न मिलिता इत्यर्थः । यथा श्राणा यवागूनियुक्तमस्यै दीयते
१ बी भिनर्वा.
१बी त अग्रेभो . २ ए ने मो. ३ बी °ष्टिकाः । आ. ४ ए 'सिकः । अ. ५ बी स्तिका । दै. ६ ए सी वृत्येत्या. ७ सी मात्रप्र. ८ ए प्यने पू. ९ बी त्र भिक्षं इ. १० ए ले: श्रिय. ११ सी या मि. १२ बी गूनियु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org