________________
[हे० ५.१.४.२] एकादशः सर्गः । शतेन यावती भूः कृष्यते तावतीमित्यर्थः । कीदृक्सन् । अनिगोह्यातिबहुत्वात्संवरीतुमशक्या मुद्येन सः॥
पुत्रे विपूयजन्माभेस्सिन्कुङ्कुमविनीयकैः ।
श्रेणिय॒ह्या पुरीगृह्योत्सवं चक्रे प्रगृह्यवाक् ॥ २४ ॥ २४. पुरीगृह्या नगरवा(बा)ह्या श्रेणिः सजातीयशिल्पिसंघः कुङ्कमविनीयकैः कुङ्कुमानां कल्कैः कुङ्कुमद्रवैरित्यर्थः । उत्सवं सर्वत्र छटादानैर्महं चक्रे । क । विपूये मुजे शरवणे जन्म यस्य स विपूयजन्मा स्कैन्दः । तेजस्वितादिगुणैस्तत्तुल्येस्मिन्पुत्रे । पुत्रजन्मविषयमित्यर्थः । कीदृशी सती । गृह्या हर्षोत्कर्षेण मद्यपानोत्थमत्ततया वास्वतन्त्रा। तथा प्रगृह्या स्वरसन्धिरहिता वाक्पटू एतौ कुङ्कुमक्षेपकावित्यादिका वाणी यस्याः सा । एतेनास्या अन्योन्यमुत्साहनं पाण्डित्यं चोक्तम् ।।
गुणगृह्याः कर्णसूनोः शक्रभृत्याः सभार्यकाः। संभृत्यभूमेः संभार्यदिवः खे मङ्गलं जगुः ॥ २५ ॥ २५. सभार्यका देवीयुक्ताः शक्रभृत्या इन्द्रपोप्या देवाः खे मङ्गलं जगुः । किंभूताः सन्तः । कर्णसूनोर्गुणगृह्या गुणानां पक्षपातिनः । यतः किंभूतस्य । संभृत्यभूमेः पोष्यपृथ्वीकस्य । तथा संभार्यदिवो दैत्यन्यक्का(का)रादिना पोष्यस्वर्गस्य ।।
वृत्यः । अत्र "ऋद्" [४१] इत्यादिना क्यप् ॥ अकृषिचुदृच इति किम् । असंकल्प्य । चर्त्य । अर्घ्य ॥
-
-------
१ सी डी दिवाःखे. २ ए वः एव म'. १ सी कमानां वि०. २ ए वणो ज. ३ ए स्कन्द ते ४ ए तापिदि'. ५ बी त्रे ज. ६ ए वाश्वत ७ सी हन पा. ८ बी देवा खे. ९ सी 'गुंह्या. १० ए कागदि. ११ ए इन्यादि . १२ ए °पिवृदृ. १३ सी डी "कल्पा। च. १४ ए °ल्प्य । वर्त्य । अर्ध्या ॥ कृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org