________________
१२
घ्याश्रयमहाकाव्ये
[कर्णराजः]
२१. असौ पुत्रः शस्यं श्लाघ्यं सुरकार्यं दैत्यवधादि करिष्यति । कीहक्सन् । अयं धर्म्यत्वेन पूज्यमसंकल्प्यं महत्तमत्वेन केनाप्यसाध्यत्वादचिन्त्यं वृत्यं वर्तनं यस्य सः । तथा चा हिंस्या अरयो येन सः। तथा शंस्यकृत्यवित् प्रशस्यकार्यज्ञस्तथा दानेन वयं सेक्यं जगद्येन सः।।
नीत्या वृष्या च मृज्या च दुह्या चानेन गौरियम् । ब्रह्मजाप्यकृतां जप्ये मार्ये विघ्नं हरिष्यते ॥ २२ ॥ २२. अनेन पुत्रेण क; नीत्या न्यायेन कृत्वेयं गौः पृथ्वी वृष्या च सेक्या न्यायेन प्रवर्तयिष्यत इत्यर्थः । अत एवं मृज्या च निपापीकरिष्यत इत्यर्थः । अत एव दुह्या च रत्नानि क्षारयितव्या च । न्यायपूतौ हि पृथ्वी महर्युपचितत्वाद्रत्नानि प्रसूते । तथा ब्रह्मजाप्यकृतां ब्रह्मणः परमध्येयस्य जाप्यं जपनं ध्यानं कुर्वतां योगिनां मार्ये रागद्वेषादिमलापनयनेन संशोध्ये जप्ये ध्याने विघ्नं दैत्याद्युपद्रवोनेन हरिष्यते ॥
ज्ञानगुह्यमिति ख्यातवत्सु तेष्वनिगोह्यमुत् ।
दोह्या गाः प्रददौ जित्याशतभूमिं च भूमिपः ॥ २३ ॥ २३. इत्येवंरीत्या ज्ञानगुह्यं ज्ञानरहस्यं ख्यातवत्सूक्तवत्सु तेषु दैवक्षेषु भूमिपः कर्णो ददौ । किमित्याह । दोह्या गा धेनूर्जित्याशतभूमि च । जित्या महाहलानि तासां यच्छतं तस्य भूमिं च । महाहल१ ए सी जाप्यं कृ. २ डी विघ्नह°. ३ डी वस्तु ते°.
१ सी धर्मात्वे. २ ए सी कल्पं म° ३ ए केनप्य°. ४ सी चिन्त्यवृत्य व. ५ ए . हिस्या. ६ ए °त् त्प्रश°. ७ बी सेच्यं ज°. ८ ए सी क्यं तग°. ९ एथ्वीन्वृषा च. १० ए सीव सृज्या. ११ ए सी ता दि पृ. १२ सी डी °ध्ये जाप्ये. १३ सी °क्त ते°. १४ डी त्सु दै. १५ ए °लामि ता. सी °लामि तांसां, १६ डी नि तांसा य.'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org