________________
[है० ६.४.१७. ]
सप्तदशः सर्गः ।
३३९
१०. अवैशिक्यो वेशेन वेश्यागृहेणाजीवन्त्यः कुलाङ्गनाः पुष्पवल्लिषु पुष्पोच्चयार्थ पुष्पाढ्यलतानां समीपे लीलानां विलासानां क्रयिका विक्रयिकाः किं क्रयविक्रयिकाः किमु क्रयेण विक्रयेण क्रयसहितो विक्रयः क्रयविक्रयस्तेन वा जीवन्त्य इवासन् । मूल्येन ग्राहिका इव दायिका इव वा । ग्रहणदाने द्वे अपि कुर्वाणा इव वासन्नित्यर्थः । यतश्चलनादिवैशिष्टयं विलासः सोस्यासां विलासिन्यः । स्त्रीपु लतासु चे चलनादिवैशिष्टयरूपाणां विलासानां सद्भावादेवमाशङ्का ॥ श्वगणिक श्वागणिक । इत्यत्र "श्वगणाद्वा" [ १४ ] इति वेकट् ॥ वैतनिकः । वैशिक्यः । अत्र "वेतनादेर्जीवति" [१५] इतीकण् ॥ ऋयविक्रयिकाः । ऋयिकाः । विक्रयिकाः । अत्र "व्यस्ताच्च०" [१६] इत्यादिनेकः ॥
वनिकायुधिकानायुधीयवातीनदारवत् ।
किं द्रून्भ्राम्यसि पत्येति श्रान्तोचे कापि संभ्रमात् ॥ ११॥ ११. कापि स्त्री श्रान्ता पुष्पोच्चयनार्थमनेकतरुषु भ्रमणात्खिन्ना सती पत्या संभ्रमात्प्रेमातिरेकोत्थादादरादूचे । कथमित्याह । वस्नं मूल्यं तेन जीवन्ति वस्निकाः कर्मकरास्तथायुधेनोपचारादायुधकर्मणास्त्रकरणादिना जीवन्त्यायुधिका लोहकाराद्या अनायुधीया आयुधकर्मानुपजीवि
६५
१ बी त् । कं दू.
१ए वेश्येन. २ सी °यिकाः किं. ३ ए यः वि. ४ ए मूलोन. ५ सी द्वे कु. ६ सी णा अपि वा. ७ सी ललना. ८ ए शिष्यं वि. ९ ए च वल. सी च लल°. १० ए °णिकः श्वा. ११ सी क । इ. १२ सी 'नेकेषु त. १३ बी पत्याः सं. १४ ए स्तिका क. १५ सी मकारा'. १६ ए वी लोहारा .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org