________________
व्याश्रयमहाकाव्ये [कुमारपालः ] पुष्पाद्यानेतुं समर्थः । कीदृक्सती । दना चरति भक्षयति यस्तत्संबोधनं हे दाधिकेत्येवंप्रकारेणाक्षिपन्ती पत्युरनभिमतपुष्पप्रदायित्वेन रुषितत्वाद्धे दनाघ्राण किमितीदं पुष्पमर्पयसीति तं दाधिकत्वेन निन्दन्तीत्यर्थः ॥ गत्यर्थ । हास्तिकैः । भैक्षार्थ । दाधिक । इत्यत्र “चरति" [११] इतीकण् ॥ पर्पिकाश्विक । इत्यत्र “पादेरिकट्" [१२] इतीकद ॥ पदिकम् । “पदिकः" [ १३ ] इति निपात्यते ॥
श्वागणिकज इत्युक्त्वार्पयन्पुष्पं प्रियोन्यया । ऊचे प्रत्या श्वगणिकजावैतनिक इत्यलम् ॥९॥ ९. अन्यया नत्या नर्मकेल्या ताडयन्त्या सत्यालमत्यर्थं प्रिय ऊचे । कथमित्याह । श्वगणिकजावैतनिक इति श्वगणेन चरति श्वगणिक आखेटिकस्तस्माजाता श्वगणिकजा तस्या वेतनेन जीवति वैतनिको भृत्यस्त्वमसीति मम दासस्त्वं तस्मात्स्वाभिमतं त्वया कारयिष्याम्येवेति तात्पर्यार्थ इति । यतः कीदृक् । पुष्पमर्पयन् । किं कृत्वा । उक्त्वा । किमित्याह । हे श्वागणिकजे हे आखेटिकपुत्रि मया सुकुमालेना(रेणा?)स्य पुष्पोच्चयनरूपस्य कष्टकर्मणो विधापनेनात्यन्तं निर्दय इत्यर्थ इति ॥
अवैशिक्यो विलासिन्यो लीलानां पुष्पवल्लिषु । ऋयिका विक्रयिकाः किं क्रयविक्रयिकाः किमु ॥१०॥
१ए हे धिकोत्ये . २ ए सी भक्ष्यार्थ'. ३ बी "ते । स्वाग'. ४ ए यत्या स. ५सी ह । स्वर्ग. ६सी ति स्वग. ७सी °ति स्वर्ग'. ८ ए ध्यामोवे'. बी घ्यामेवे'. ९ ए बी यत् । किं. १० ए मिक्याह, ११ बीचयेन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org