________________
[ है० ६.३.१८७.] षोडशः सर्गः।
३२५ प्रोक्तान्वेदान्विदन्त्य धीयते वा ये तैः खाण्डिकीयादिभिरिव । खाण्डिकीयादयो हि तत्तद्वेदपाठकाले प्रणदन्ति । पाणिनीय । इत्यत्र "तेन प्रोक्ते" [ १८१] इति यथाविहितं दोरीयः ॥ मौदाः । जाजलाः । अत्रै “मौदादिभ्यः" [ १८२ ] इत्यण् ॥ कलकर्कराः । अत्र “कठादिभ्यो वेदे लुप्" [ १८३ ] इत्यणो लुम् ॥ तैत्तिरीयाः । वारतन्तबीयाः । खाण्डिकीयौखीयैः । अत्र "तित्तिरि०" [ १८४ ] इत्यादिना-ईयण ॥ छागलेयिभिः । इत्यत्र “छगलिनो णेयिन्” [ १८५ ] इति णेयिन् ॥
शौनकिभिः । वाजसनेयिभिः । इत्यत्र “शौनकादिभ्यो णिन्" [१८६ ] इति णिन् ॥ शैलालिनः काश्यपिनश्च कौशिकिनश्च पाराशरिणश्च भिक्षोः । सत्पैङ्गिकल्पार्थविदश्च वाग्नु सद्योवदाता कुमुदालिराभात् ॥१०॥
९०. सद्यः शरत्कालप्रादुर्भावक्षण एव कुमुदालिराभाठ्यकसदित्यर्थः । कीदृशी। अवदाता निर्मला वाग्नु यथा वाग्वाण्यवदातापशब्दादिदोषमलरहितत्वेन शुद्धा स्यात् । कस्य कस्येत्याह । शिलालिना प्रोक्तं नटसूत्रं काश्यपेन प्रोक्तं पुराणं कल्पं कौशिकेन प्रोक्तं पुराणं कल्पं पारास(श)र्येण प्रोक्तं भिक्षुसूत्रं वेत्त्यधीते वा यस्तस्य शैलालिनः काश्यपिनश्च कौशिकिनश्च पाराशरिणश्च भिक्षोस्तथा पिङ्गेन प्रोक्तः पुराणः कल्पः पैङ्गिकल्पः सञ् शोभनो य: पैङ्गिकल्पस्तस्यार्थं वेत्ति यस्तस्य च ॥
१ ए बी सत्पेङ्गि.
१ बी °त्तथेद. २ बी यः । मोदाः. ३ बी सी त्र मोदा. ४ ए अथ क. ५ ए खाडिकी . ६ बी योखी. ७ सीण् । कर्करा । छा. ८ ए णेयन्. ९ सी °ति णोयन्. १० ए°द्यः सर. ११ ए शिकेन. १२ बी °णः पुराणः क. १३ बी यः पि शि. १४ वी स्य स । पै.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org