________________
३१८
ब्याश्रयमहाकाव्ये कुमारपालः] सन्त इत्यर्थः । तथा मल्लिकाघ्रास्तदातिसुलभत्वादतिसुरभित्वाच्च विचकिलपुष्पाणि जिघ्रन्तः ॥ वैरं नु दैवासुरमप्रशान्तो राक्षोसुरं वाजनि मन्मथोत्र । झगित्यनाट्यानपि नाट्यमध्यापयन्दधत्पाटलचापयष्टिम् ॥ ८१ ॥
८१. अत्र ग्रीष्मे झगिति ग्रीष्मर्तुप्रादुर्भावकाल एव मन्मथोप्रशा. न्तः सदोदीप्तोजनि । दैवासुरं राक्षोसुरं वा वैरं नु यथा देवानामसुराणां चे रक्षसामसुराणां च संबन्धि वैरं शावतिकवैरत्वात्कदापि न प्रशान्तं स्यात् । कीटैंशः सन् । पाटलायाः पुष्पं पाटलं प्रीष्मे हि पाटला पुष्प(प्य?)ति । तदेव चापयष्टिस्तां दधदत एव नास्ति नाट्यं नटानां धर्म आम्नायः संघो वा येषां ताननाट्यानपि नाट्यरहितान्मुन्यादीनपि नाट्यं नटानां नृत्तं स्मरोद्रेकोत्थं सविलासभ्रत्क्षेपादिकमध्यापयन् । योपि नाट्योपाध्यायः स्यात्सोपि शिक्षायष्टिं दधैदनाट्यान्नाट्यानभिज्ञान्नाट्यमध्यापयञ् शिक्षाग्राहणायानुपशान्तः स्यादित्युक्तिः ॥ छान्दोग्ययाज्ञिक्यमपास्य बाइच्यौक्थिक्यमाथर्वणकाठकं च । असिञ् शिरीषैर्दभुः सजो दण्डमाणवा अन्तसदश्च काण्वाः॥८२॥
८२. अस्मिन्त्रीष्मे काण्वाः काव्यस्यपेरिमे दण्डमाणवा आश्रमिणां रक्षापरिचरणार्था दण्डप्रधाना माणवा अन्तसदश्वाध्ययनार्थाः शिव्याश्च सुरभित्वादतिशीतत्वाच कण्ठादौ न्यासाय शिरीषैः शिरीषवृक्षपुष्पैः स्रजो दद्दभुर्घश्नन्ति स्म । ग्रीष्मे हि शिरीषाः पुष्प(प्प्य?)न्ति । किं _१ बी न्तो रक्षो'. २ ए वाक्षनि. ३ ए थो नु । झ.
१ ए सी विचिकि. २ बी पुष्पाणि, ३ सी ग्रीष्म'. ४ ए मे रिगि. बी मे द्धिगि'. ५ सी च सं. ६ सी 'श्वतवै. ७ सी 'दृक् पा. ८ ए सी लाया पु. ९ बी पुष्फ पा. १० बी सी धत. ११ सी नां नृस्मरों . १२ ए धना. १३ सी काण्वस्य. १४ सी °णार्थद. १५ ए र्था शि. १६ बी सी शिक्षाश्च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org