________________
३१२
घ्याश्रयमहाकाव्ये
[कुमारपालः]
अस्य कुमारपालस्यान्तःपुरिकादिलोकमन्तःपुर एकपुरुषपरिग्रहे स्त्रीसमूह उपचारात्तन्निवासे वा भवा आ(अ)न्तःपुरिका राज्यस्तत्प्रभृतिस्त्रीलोकं ज्ञात्वेव । किंभूतम् । औपनीविक्या नीवीसमीपे प्रायेण भवया ऋजुस्रजा सरलपुष्पमालया रिरंसुम् ॥ पारिमुख्यैः । आनुपथ्यैः । इत्यत्र “परि०" [ १३६ ] इत्यादिना ज्यः ॥ आन्तःपुरिकैः । अत्र “अन्तः०" [ १३७ ] इत्यादिनेकण् ॥ पारिग्रामिकैः । आनुग्रामिक । इत्यत्र “पर्यनोमात्" [ १३८ ] इतीकण् ॥
औपजानुक । औपनीविक्या । औपकणिक (क्या)। इत्यत्र “उपाजानु०" [ १३९ ] इत्यादिना-इकण् ॥
अन्तःपुरिका । इत्यत्र "रूढौ०" [ १४० ] इत्यादिनेकः ॥ कर्णिकासु । ललाटिका । इत्यत्र “कर्ण०" [ १४१ ] इत्यादिना कल ॥ अथ वसन्तर्तुमारभ्य सर्वर्तनामाविर्भावं वर्णयति । पिकोथ कााचिकपाञ्चहोतृकतार्किकाख्यातिकसांहितेषु । विघ्नो मुनीनां सहवाजपेयिकेषु व्यकूजन्नवचूतमत्तः ॥ ७३ ॥
७३. अथ पिको व्यकूजव्यक्तं शब्दमकरोत् । कीडक्सन् । मुनीनां विघ्नः स्मरोद्दीपकत्वेनोन्मनीकारकत्वादन्तरायभूतः । केपु विषये[पु] । कार्तार्चिकपाञ्चहोतृकतार्किकाख्यातिकसाहितेषु कृतां तथा ऋचां मत्रविशेषाणां तथा पञ्चसु होतृषु भव इत्यणो लुपि पञ्चहोता ग्रन्थभेदस्तस्य तथा तर्काख्यातसंहितानां व्याख्यानानि यद्वा कृतादिषु भवानि व्याख्यानानि तेषु । किंभूतेषु । सह वाजपेयिकेषु वाजपेयस्य यज्ञस्य व्याख्यानं तत्र भवं वाजपेयिकं तेन युक्तेषु । यतः कीदृक् । नवचूतमत्तः प्रत्यग्राम्रफलास्वादनेन मत्तः ॥
१ बी जुश्रजा. २ बी शुम्. ३ बी नोग्रामा'. ४ बी ये कर्ता'. ५ बी कृदादिपु व्या . ६ बी सी °स्य व्या. ७ सी पेयकं, ८ एयिकां ते. ९ सी फलस्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org