SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ [है० ६.३.१३६.] षोडशः सर्गः। ३११ रिमुख्यानि तैरतिबाहुल्येन गिरेः सर्वमुखेषु भवैर्लोकारोहाद्यर्थं गिरिमुखं पद्यां वर्जयित्वा भवैर्वेत्यर्थः। तथान्तःपुरिकैः पुरस्यान्तनगरमध्यभागे भवैगुहैरिव विस्तीर्णत्वस्वर्णकलशोल्लोचैचित्रपताकाद्युपेतत्वादिना नगरगर्भस्थधवलगृहतुल्यैरित्यर्थः ॥ अथावसत्तत्र चमूः सधान्यानुग्रामिकक्षेत्रभुवोभिरक्षन् । दृशौपकर्णिक्य ऋजूल्लसन्त्यौपजानुकोद्दामभुजो नरेन्द्रः॥७१॥ ७१. अथ नरेन्द्रस्तत्र वर्णासातटेवसत् । कीदृक् । औपजानुको प्रलम्बत्वाजान्वोः समीपे प्रायेण भवावुद्दामौ भुजौ यस्य सः । तथा सधान्या सस्याढ्यानुयामिकी ग्रामसमीपे भवा या क्षेत्रभूस्तस्याः सकाशाञ्चमूंरभिरक्षन्धान्यविनाशाभावाय निवर्तयन्सन् । कया कृत्वा । दृशा दृष्टया । कीदृशा । औपकर्णिक्यातिविस्तीर्णत्वेन कर्णसमीपे प्रायेण भवया तथा ऋजूल्लसन्त्या कोपादिविकाराभावेनाकुटिलं यथा स्यादेवं रक्षासंज्ञार्थमू:भवन्या ॥ रिरंसुमन्तःपुरिकादिलोकमस्यो(स्यौ)पनीविक्य ऋजुस्रजाथ । ज्ञात्वेव वन्यास्वगकर्णिकासु ललाटिकेवर्तव आविरासन् ॥७२॥ ___७२. अथर्तवो वसन्ताद्याः सर्वेप्याविरासन् । कीर्दशः । अगस्यार्बुदस्य विभूषकत्वात्कर्णिकासु कर्णाभरणतुल्यासु वन्यासु वनानां समूहेषु ललाटिकेव शोभाहेतुत्वाल्ललाटमण्डनतुल्याः । ललाटिकापि कर्णिकासु मध्ये शोभाविशेषाप्त्याविर्भवति । किं कृत्वेवाविरासन् । १ बी णिक्या ऋ°. २ बी सन्त्योप. ३ बी रंशुम. ४ सी °सु लाला. ५ ए बी केवात. १ बी गिरेमु. २ बी चविचि° सी चप'. ३ बी ना नाग. ४ बी यस्या सः. ५ बी 'मूभि. ६ बी दृष्टयाः । कीदृश्योप. ७ वी रक्ष्यासं. ८ ए दृशोस्या. ९ सी तुल्या । ल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy