SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [है० ६.३.१०५.] षोडशः सर्गः। ३०३ वा देयमाग्रहायणकमाग्रहायण्यां मार्गशीर्ध्या देयं च ऋणे येषां ते तथा। यतः। कीदृश्याः श्रियः। फलानि धनधान्यलाभादीनि दाव्याः। किंभूतानि । सांवत्सरिकाणि लोकैः सांवत्सरिकपर्वणाराधितत्वेन लोकानामवश्यं देयत्वेन संवत्सरे लक्ष्म्या ऋणभूतानि देयानि ॥ फलं च सांवत्सरकं प्रदायी पर्वेव मेमुं निकषैष देशः। द्राक्छारदेनोदलिताग्रहायणिको भृशं शालियवेन भाति॥१२॥ ६२. हे राजन्नमुमबुंदं निकास्य समीप एष प्रत्यक्षो देशश्च शालियवेन शालिभिर्यवैश्च कृत्वा भृशमत्यर्थं भाति । कीदृशा । शारदेन शरदि पच्यन्ते ते शारदाः शालयस्तथा शरद्युप्ताः शारदा यवाः समाहारद्वन्द्वे "स्थादावसंख्येयः" [ ३. १. ११९. ] इत्येकशेषे शारदं तेन । कीहक्सन् । सांवत्सरकं संवत्सरे देयमृणं पर्वेव श्रीदेव्युत्सवमिव फलं लक्षसंख्यराजग्राह्यभागद्रव्यादि मे मम विक्रमसिंहस्य प्रदायी । एतद्देशप्रदत्तेन द्रव्येण हि सांवत्सरकं पर्व श्रीदेव्या मया प्रतिवर्ष क्रियतेतश्च तत्पर्वणोनेन प्रतिवर्ष करणीयत्वादृणभूतं तद्यथासौ ददाति तथा फलमप्यनेकधनधान्यादि दददित्यर्थः । अत एव द्रागुदलितं विनाशितमाग्रहायणिकमाग्रहायण्यां देयमृणं येनार्थान्मम स तथा॥ ग्राम्या अमी हैमनवाससस्त्वेक्षन्तेनुवासन्ति महर्द्धयोनैः । आश्वात्परस्सिन्युजकैश्च वासन्तकैश्च वासन्तविलक्षणैश्च ॥६३॥ ६३. प्रस्तावादबार्बुदेनुवासन्ति वसन्ते पुष्प(ष्य?)न्ति १ बी त्सरिकं. २ ए बी पैक दे'. ३ ए सी द्राक् शार. १ए ऋमण. २ सी षाद्य स. ३ बी त्सरिकं. ४ ए ए द्रा. ५ बी द्राग्दलि. ६ बी तमग्रेहा. ७ सी यण्यां. ८ बी 'माग्राहा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy