________________
घ्याश्रयमहाकाव्ये [कुमारपालः ] पूर्वाह्नकोसिन्नपराह्नकेन प्रदोषकोवस्करकाईकाभ्याम् । यक्षरमावास्यकपन्थकामावास्यैः सुरः खेलति मूलकश्च ॥ ५५ ॥
५५. स्पष्टः । किं तु पूर्वाह्नकादीनि नामानि । पूर्वाले जात इत्यादिनिरुक्तिः कार्या ॥
पूर्वाह्नकः । अपराह्नकेन । आकाभ्याम् । मूलकः । प्रदोषकः। अवस्करक । इत्यत्र "पूर्वाह्न." [ १०२ ] इत्यादिनाकः ॥ पन्थक । इत्यत्र “पथः पैन्थ च” [ १०३ ] इत्यकैः पन्थादेशश्च ॥
अमावास्यैः । अमावास्यक । इत्यत्र "अश्व०" [ १०४ ] इत्यादिना-अ-अकौ वा । पक्षे । अ(आ)मावास्यैः ॥
आषाढ्यषाढं बहुलं श्रविष्ठाषाढीयमन्तस्तरु फल्गुनी च । श्राविष्ठयनूराधमिहामरी श्राविष्ठीय ऋच्छत्यथ फाल्गुनं च ॥५६॥
५६. इहार्बुदेषाढाभिश्चन्द्रयुक्ताभिर्युक्तः कालोषाढास्तासु जातापाढी नामामरी देव्यषाढमषाढासु जातं देवमन्तस्तरु वृक्षखण्डमध्य ऋच्छति क्रीडायै गच्छति । तथा अविष्ठा धनिष्ठासु जातामरी बहुलं कृत्तिकासु जातं देवमृच्छति । तथा फल्गुनी च फल्गुन्योर्जाता चाम - र्याषाढीयं देवमृच्छति । श्राविष्ठी चानूराधमृच्छति । अथ तथा श्राविष्ठीया फाल्गुनं चर्च्छति ।।
१ए विष्ठी'.
१बी स्पष्टम् । किं. २ ए दीनां ना. ३ सी दिनिरु. ४ सी पन्था. ५ ए कः पन्थः प. ६ बी पथादे'. ७ बी युक्तका. ८ सी लोप्यषा. ९ बी देव्याषाढमाषाढा. १०बी क्षषण्ड', ११ सी धासु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org