________________
[ है० ६.३.१०१.] षोडशः सर्गः।
२९९ कालेयवत्स्रौनवधूषु शारदकेष्विव प्रावृषिकाब्दवृष्टिः । ससिन्धुकापात्करिकापैकर्या च सैन्धवीहाप्सरसो विभान्ति ॥५४॥ ___५४. इहार्बुदेप्सरसो विभान्ति स्वर्गेपि दुर्लभैस्तैस्तैः शाद्वलवनखण्डादिरम्यैः क्रीडास्थानविशेषैर्विशेषितत्वाच्छोभन्ते । काः कास्तत्राह । ससिन्धुका सिन्धौ जाता सिन्धुका नाम देवी तैया युक्तापात्करिकापकरे कचवरे जाताकरिकाख्या देवी तथापकर्यैवंनाच्या देव्या सह सैन्धवी चैवं नाम्नी देवी चेति । यथा सौन्नवधूषु सुन्नदेशजातासु स्त्रीषु कलौ जातं कालेयं कुङ्कुमं वधूरूपादिविशेषेण विशेषितत्वाद्भाति यथा वा शारदकेषु शरदि जातेषु मुद्गविशेषेषु दर्भेषु वा प्रावृषिकाब्दवृष्टिर्व कालजातमेघवृष्टिः फलाापचयविशेषेण विशेषितत्वाद्भाति । एतेनैवं नामायं शैलो रम्यो येनात्र देव्योपि क्रीडन्तीत्युक्तम् । सिन्धुकादीनां देवीनां मिलितानां बहुत्वादप्सरस इत्यत्र बहुवचनम् । यद्वैकस्मिन्नप्यर्थे वाच्येप्सरश्शब्दः स्वभावेन बहुवचनान्त इति बहुवचनम् ॥
सौन्न । कालेय । इत्यत्र "जाते" [ ९८] इति यथाविहितं प्रत्ययाः ॥ प्रावृषिक । इत्यत्र "प्रावृष ईंकः” [ ९९ ] इतीकः ॥ शारंदकेषु । इत्यत्र "नाम्नि." [१०० ] इत्यादिनाकञ् ॥ सिन्धुका । सैन्धवी । अपकरिका । अपैकर्या । इत्यत्र “सिन्धु०" [११] इत्यादिना कोण्च ॥
१ ए °ब्दधृष्टिः. २ए पवार्या.
१ बी सी भैः शाडल. २ ए बी न्ते । का का तत्रा'. ३ ए तत्रायु. ४ बी पकारि. ५ सी “देशेषु मुद्ग. ६ सी पु या प्रा. ७ ए °न व. ८ सी इती', ९ सी रदिके. १० बी सीपकार्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org