________________
[है० ६.३.७७.] षोडशः सर्गः । ____२८९ अनन्तिमा तीर्थतयाग्रिमाणामपश्चिमं वारिनिधेः कलत्रम् । पुनाति पुण्या सरिदादिमा सा मन्दाकिनी मध्यमभागमस्य ॥४०॥
४०. सा प्रसिद्धा मन्दाकिनी गङ्गास्यार्बुदस्य मध्यमभागं पुनाति । कीहक् । पुण्या पावित्र्यहेतुरत एव तीर्थतयाग्रिमाणामपि । अपिरत्राध्याहार्यः । मुख्यानामप्यनन्तिमा मुख्या महातीर्थमित्यर्थः । तथा सरिदादिमा नदीषु मुख्यात एव वारिनिधेरपश्चिममाद्यं कलत्रम् ॥
अपश्चिमम् । आदिमा । अनन्तिमा । अग्रिमाणाम् । अत्र "पश्चाद्" [ ७५ ] इत्यादिना-इमः ॥
मध्यम । इत्यत्र "मध्यान्मः" [ ७६ ] इति मः ॥ मध्योपि चाध्यात्मिकपारलौकिकार्थाविदप्यत्र समागमेन । साजन्तुराकसिक एव सामानंदेशिको वार्षिकमेधकर्तुः ॥४१॥
४१. अत्रार्बुदे समागमेनात्मसाधनार्थमागमनेन कृत्वा जन्तुः स्यात् । किंभूत इत्याह । आकस्मिक एवाकस्माद्भवस्तथाविधधर्मानुष्ठानाभावेनासंभाविततथाविधपदत्वादतर्कितोपनतो वार्षिकमेघकर्तुरिन्द्रस्य सामानदेशिकः समानचिकत्वेनेन्द्रसमाने देशे प्रदेशे भव इन्द्रसामानिको देव इत्यर्थः । किंभूतोपि । मध्योपि नात्युत्कृष्टो नाप्यपकृष्टो मध्यपरिणामोपि विशिष्टशुभपरिणामरहितोपीत्यर्थः । तथाध्यात्ममात्मनि भव आध्यात्मिकः परलोकस्यायं हितत्वेन यद्वा परलोके
१ ए रिधेः. २ सी नी वारिनिधेः कलत्रम् । सा. ३ सी देशको. १ए 'या'. २ बी रिधे”. ३ एम् । प. ४ बी सी पश्चिमाद् . ५ ए नात्ससा. ६ सी त्मपावना. ७ ए ह । क. ८ सी तस्तथा'. ५ ए बी °स्य समा'. १० सी मान्यदेशकः. ११ बी नात्कृ. १२ ए णामर'. १३ बी सी लोकसु.
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org