SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २८६ व्याश्रयमहाकाव्ये कुमारपालः ] देशे भवा ये मुनिनरादयस्तद्युक्तैर्माध्यममध्यमीयैः पृथिवीमध्यं निवास एषां माध्यमाश्चरणाः पृथिवीमध्ये जाता भवा वा मध्यमीया नरा द्वन्द्वे तैरध्यासितः ॥ यौष्माकवंशे नु शरण्य आसाकीनादिमानामिह किंपुरुष्यः । अयुष्मदीया अपि तावकीना इवाभिगायन्ति यशस्त्वदीयम् ३६. इहार्बुदे वर्तमानाः किंपुरुष्यः किंनर्योयुष्मदीया अप्यन्यदीया अपि तावकीना इव त्वदीयं यशोभिगायन्ति । कीदृशीह । आस्माकीनादिमानामस्माकमादिमानामादौ भवानां पूर्वजानां शरण्ये महादुर्गत्वाद्रक्षाहेती यौष्माकवंशे नु यथा युष्माकं वंशश्चौलुक्यान्वयोस्मत्पूर्वजानां सदा स्वामित्वेन शरण्यः ।। न मामकीना न च तावका ये द्वैप्याः किलामामकवादिनस्ते । आख्यन्नमुं सोदरमीश्वरस्यााया मदीयोचितभक्तितुष्टाः ॥३७॥ ३७. ये द्वैप्या द्वीपे समुद्रसमीपस्थदेशे भवा मुनयो न मामकीना न च तावेका(काः) सन्ति । यतः । किलेति सत्ये। अमामकवादिनो ममेदं मामकं न तथामामकं तद्वदनशीला निर्ममत्वा इत्यर्थः । ते मुनयोमुमबुंदाद्रिमीश्वरस्य शंभोराया अर्धे शरीरार्धभागे भवाया गौर्याः सोदरं भ्रातरमाख्यन्नर्थान्ममाग्रे । अर्बुदो हि हिमाद्रेः पुत्र १ बी रुषाः । अं. २ बी रस्या . ३ एष्टाः ॥ द्वी. १ सी वा म. २ ए रुपाः किनार्यायु. ३ बी किनायों. ४ बी दृशाह । अस्मा'. ५ सी शी । आ. ६ ए नामादौ. ७ बी नादौ. ८ ए तौ युष्मा. ९ वी सी वकीनाः स. १० बी गौर्यायाः सो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy