SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६० घ्याश्रयमहाकाव्ये [जयसिंहः ] १२३. स जयसिंहः स्वसिद्धयेयतत परलोकसाधनायानशनाद्यन्त्यक्रियां चकारेत्यर्थः । कुत इतीशवाक्स्मृतेरेवंविधसोमनाथवचःस्मरणमवलम्ब्य । का वागित्याह । उ हे जयसिंह तवात्यये तदपत्यं तस्य त्रिभुवनपालस्यापत्यं कुमारपालो महीमविता पालयिष्यति । कैः। सहाश्रमैब्रह्मचारिमुख्यैः । किंभूतैः । लसन्तः सम्यग्ज्ञानेन देदीप्यमानाः पदोत्तरपदिकाः पदं चोत्तरपदं च विदन्तोधीयाना वा वैयाकरणा येषु तैस्तथा ससामकैः सामवेदज्ञयुक्तैः ॥ रुचिरा छन्दः ॥ उपनिषदकशिक्षकेषु मीमांसकपदंककमकेष्वथापरेयुः। जनितशुगवनीपतिर्मघोनः पुरमगमत्परमेष्ठिनः स्मरन्सः ॥१२४॥ १२४. अथापरेयुः सोवनीपतिर्जयसिंहो मघोनः पुरमगमदिवं गत इत्यर्थः । कीहक्सन् । जनितशुग्विहितशोकः । केषु विषये । उपनिषदकशिक्षकेपूपनिषदं योगशास्त्रं शिक्षा वर्णोत्पत्तिस्थानप्रतिपादक ग्रन्थं विदत्स्वधीयानेषु वा। तथा मीमांसकपकक्रमकेषु मीमांसा विचारणाशास्त्रं पदक्रमौ च वेदपाठभेदौ विदत्स्वधीयानेषु वा द्विजेषु तथा परमेष्ठिनोर्हत्सिद्धाचार्योपाध्यायसुसाधून्हरिहरब्रह्मणश्च स्मरन् । अनुब्राह्मणि । इत्यत्र “अनु०" [ १२३ ] इत्यादिनेन् ॥ शतपथिकैः । षष्टिपथिकैः । अत्र "शत." [ १२४ ] इत्यादिना-इकट् ॥ १ बी दशि. २ ए बी दक्र'. १ बी सिंह स्व. २ बी लोके सा. ३ बी सी यन्तक्रि. ४ बी विधं सो'. ५ सी दकग्र. ६ बी सी वाथ त”. ७ बी सी दक्र. ८ सी क्रमेषु. ९ए विधत्स्व. १० सीयवसा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy