________________
[है० ६.२.१२३.] पञ्चदशः सर्गः।
२५९ अनुब्राह्मण्याढ्यैः सशतपथिकैः षष्टिपथिकैः
कृताध्यायान्याशूत्तरपदिकयुक्पूर्वपदिकैः । द्विषद्भूवाके(क्ये)भ्यः पदिक इव निर्धार्य स पदा
न्युरून्कीर्तिस्तम्भानिव सुरगृहाणि व्यरचयत् ॥ १२२ ॥ १२२. स राजा सुरगृहाणि प्रासादान महाकीर्तिहेतुत्वेनौरून्महतः कीर्तिस्तम्भानिवाशु व्यरचयदकारयत् । किं कृत्वा । यथा पदिको वैयाकरणो वाक्येभ्यः सकाशात्पदानि विभक्त्यन्तादीनि निर्धारयति तथा द्विषद्भूवाक्येभ्यो द्विषद्भुवः शत्रुभूमय एव पदसमूहात्मकत्वाद्वाक्यानि तेभ्यः सकाशात्पदानि देवगृहस्थानानि निर्धायपु स्थानेषु देवगृहाणि विधास्यन्त इति पृथकृत्य शत्रुदेशेष्वपि देवगृहाण्यकारयदित्यर्थः । किंभूतानि । कृताध्यायानि विहितपाठानि । कैः । षष्टिपथिकैः षष्टिः पन्थानो यस्य स पष्टिपथो वेदाध्यायविशेषस्तं विदन्त्यधीयते वा तैर्द्विजैस्तथोत्तरपदिकयुक्पूर्वपदिकैः समासोत्तरपदविद्युक्तैः समासपूर्वपदविद्भिश्च लाक्षणिकैश्च । किंभूतैः। अनुब्राह्मण्याव्यैर्ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणं तत्सदृशो ग्रन्थोनुब्राह्मणं सदगर्थेव्ययीभावः । तद्विदन्त्यधीयते वानुब्राह्मणिनस्तैराढ्यैर्युक्तैस्तथा सशतपथिकैः शतपथवेदाध्यायविशेषविद्युक्तैः ॥ शिखरिणी छन्दः ॥ लसत्पदोत्तरपदिकैः ससामकैः सहाश्रमैस्तव तदपत्यमत्यये । कुमारपाल उ अविता महीमितीशवावस्मृतेरयतत स स्वसिद्धये
॥ १२३ ॥ १ ए सी कैः कृ. २ बी कृतध्या'.
१ ए बी °णि प्रसा. सीणि विधास्यन्त इति पृथककृत्य श प्रा. २ बी 'तुत्वानारू'. ३ ए नोन्म. ४ सी वाकेभ्यः. ५ सी नि दे'. ६ए वाकेभ्यो. ७ ए युत्पूर्व. ८ बी सी ट्यैाह्म. ९ ए बी शिखिरणी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org