SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ [है० ६.२.६४.] पञ्चदशः सर्गः। २४१ ८३. यो नरस्त्वत्त आकृष्यान्यतोन्यस्मिन्देवे चेतो नयेत्प्रापयेत्स कुधीर्दुर्बुद्धिौवयाद् द्रोर्दारुणो विकारो द्रुवयं मानं तस्यापि विकारातद्भक्त्वा कृतात्पात्रात्काष्ठभाजनात्कापित्थं कपित्थस्य विकारः फलं कपित्थम् अण् । “फले" [ ६. २. ५८ ] लुप । तस्य विकारं रसमाकृष्ये गोमये गोमयविकारे भस्मनि क्षिपेत् । सत्पात्रे त्वयि न्यस्तं मनः कापित्थरसवद्वाञ्छितकार्यसिद्धये स्यात् । भस्मतुल्येषु तु कुपात्रेष्वन्यदेवेष्वात्मानमपि कुवासनया विनाशयतीत्यर्थः ।। तद्धितवद्भूयोपि विकारतो न भवेदित्यनेन “न द्विः०" [६१ ] इत्यादिसूत्रोक्तो निषेधो ज्ञापितः ॥ अद्रुवयगोमयफलादीति किम् ॥ द्रौवयात्पात्राद्गोमये भस्म नि कापित्थं रसम् ॥ पितृव्या मातुला वृद्धा मातामहपितामहाः। हेतवो बन्धनस्यैव त्वं तु मोक्षस्य कारणम् ॥ ८४ ॥ ८४. स्पष्टः । किं तु बन्धनस्य रागद्वेषादिरूपस्य भावबन्धनस्य । पितृव्याः । मातुलाः । अत्र “पितृ." [ ६२ ] इत्यादिना व्यो डुलश्च ॥ पितामहाः । मातामह । इत्यत्र “पित्रो महद" [ ६३ ] इति डामहट् ॥ संत्यज्याविमरीसानि देव त्वां द्रष्टुमागताः। प्रियाविसोढा आभीरा नाविदूसं किलासरन् । ८५ ॥ ८५. हे देवाविमरीसान्यजादुग्धानि संत्यज्य त्वां द्रष्टुमागता आभीरा अजापालाद्याः। त्वद्रूपामृतास्वादतृप्तत्वादविदूसमजादुग्धं किलेति सत्ये नास्मरन् । कीदृशाः। प्रियाविसोढी अपि । अपिरत्र ज्ञेयः । अजादुग्धाहारत्वादभीष्टाजादुग्धा अपि ॥ १ ए°न्यस्मि'.२ ए सी कृत्यत्पा. ३ ए सी कारफ. ४ ए सी र स. ५ ए सी प्य गौम. ६ ए सी त् । यत्पा. ७ बी तकर्मसि. ८ ए सी तु पा. ९ ए बी न द्विः. १० ए सीत त्या. ११ ए ग्धं ति कि.१२ ए ढापिर. सीढा अपिर'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy