SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] धिग्निष्फलत्वाद्गर्हामहे यतस्त्वामदेवबुद्ध्या निन्दताम् । किंभूतम् । अपि करामलकवत्करस्थामलकीफलमिव जगत्केवलज्ञानेन पश्यन्तम् || २४० आमलक । इत्यत्र "फले" [ ५८ ] इत्यणो मयटो वा लुप् ॥ लाक्षाश्वत्थ । इत्यत्र "लक्षादेरण्" [ ५९ ] इत्यण् ॥ जाम्बव जम्बू । अत्र "जम्ब्वा वा " [ ६० ] इति वाण् । 2 त्वयि भक्तस्तद्धितंवद्भूयोप्यङ्गविकारतः । भवेन्न हि भवे जन्तुर्जगदेकदयानिधे ॥ ८२ ॥ पक्षे लुप् ॥ ४ ८२. हे जगदेकदयानिधे त्रिभुवनमध्ये दयाया एकस्थान श्री - नेमे त्वयि भक्तो जन्तुरङ्गविकारतोङ्गमेव योसौ विकार आत्मनो - विभिन्नत्वेन विकृतिस्तेन आद्यादित्वात्तस् | [ ७. २. ८४ ] शरीररूपेण विकारेण भूयोपि भवे न हि भवेत् त्वद्भक्त्यापुनर्भवावाप्तेः पुनः संसारे न जायेतेत्यर्थः । तद्धितवदिति । अङ्गेति कोमलामन्त्रणे । यथा विकारतो विकारेर्थे कपोतस्य विकारावयवो वा कापोतः । कापोतस्य विकारावयवो वेत्यादौ पुनरपि तद्धितो “ दोरप्राणिनः ” [ ६. २. ४९. ] इत्यादिना मयडादिस्तद्धितप्रत्ययो “न हिरवय० " [ ६.२.६१ ] इत्यादिना निषेधान्न स्यात् ॥ त्वदाकृष्यान्यतश्वेतो नयेद्यः स कुधीः क्षिपेत् । कापित्थं द्रवयात्पात्राद्रसं भस्मनि गोमये ॥ ८३ ॥ १ बी 'तभूयो' सी 'त' २ ए 'योग्य'- ३ बी सी 'नि गौम १ सी निन्दिता, ४ सी श्रीभूयेपि. २ बी यन्ताम् ३ सी वाद्भयोप्यंगविकारित लु ५ ए नेमि त्व'. ६ बी सी जायतेत्य'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy