SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ [है० ६.२.५३.] पञ्चदशः सर्गः। २३७ गोमय । इत्यत्र “गोः पुरीपे' [ ५० ] इति मयद ॥ बीहिमयान् । इत्यत्र "नीहे:०" [ ५१ ] इत्यादिना मयद ॥ कुम्भैर्यवमयोत्पेषगौरैश्चकैरिवावभौ । नेमिस्तिलमयक्षोदस्निग्ध ओघो नु यामुनः ॥ ७६ ॥ ७६. तिलमयक्षोदस्निग्धस्तिलवर्तिवदरूक्षकालिमगुणो नेमिः कुम्भैः स्वर्णकलशैः कृत्वाबभौ । किंभूतैः । यवानां विकारो यवमयं यवपिष्टं तेन य उत्पेष उज्ज्वालनं तेन गौरैर्निर्मलैः । यथा तिलमयक्षोदस्निग्धो यामुन ओघः प्रवाहो गौरैः स्वर्णवर्णैश्चक्रैश्चक्रवाकैर्भाति ।। युजा पिष्टमयैर्गन्धैर्यावगौरैरतैलया। उद्वर्तितः पिष्टिकया सोस्तहैयङ्गवीनया ॥ ७७ ॥ ७७. पिष्टिकया दलिता मुद्गादयः पिष्टं तद्विकारेणातिसूक्ष्मेण पिष्ठेन कृत्वा स श्रीनेमिनाथ उद्वर्तितो राज्ञोज्वालितः । कीदृश्या । गन्धैः कुष्ठादिभिर्गन्धद्रव्यैर्युजा युक्तया । किंभूतैः । यवस्य लाक्षाया विकारो यावोलक्तकस्तद्वद्गौरैः पीतवर्णैस्तथा पिष्टमयैः कुष्ठादयः किंचिचूर्णिताः पिष्टं तस्य विकारैरतिश्लक्ष्णपिष्टरूपैरित्यर्थः । तथातैलया तिलविकारेण स्नेहेन रहितयात एवातिरूक्षत्वादस्तं क्षिप्तं हैयङ्गवीनं ह्योगोदोहस्य विकारः प्रतिमालग्नं स्नानघृतं यया तया ॥ तिलमय । यवमय । इत्यत्र "तिल." [ ५२ ] इत्यादिना मयट् ॥ भनानीति किम् । अतैलया । याव ॥ १ ए यामनुः । ति . १.बी थं पि. २ सी उत्प्रेक्ष्य उ. ३ ए सी चिचूर्णि'. ४ सीत त्यत्र. ५ ए तं हेयं. ६ बी तं तया त". Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy