SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ [ है० ६.१..१२८] पञ्चदशः सर्गः । २१५ २९. सागस्तीया अगस्तीनामभिश्छात्रैर्युक्ता अगस्तयोगस्त (स्य?)स्थापत्यान्य॒षय एवं श्यापर्णादयोप्यृषयः । पृथासूनोयुधिष्ठिरस्य । शिष्टं स्पष्टम् ॥ पञ्चालाः । लोहध्वजाः । इत्यत्र "बहुध्वस्त्रियाम्" [ १२४] इति गुलम् ॥ अस्त्रियामिति किम् । पाञ्चाल्यः । लौहध्वज्याः ॥ यस्काः । लह्याः । अत्र “यस्कादेर्गोत्रे [ १२५] इति प्रत्ययस्य लुप् ॥ गर्गाः । विदाः । अत्र “यजि(ज)जः०" [ १२६ ] इत्यादिना यजमोलम् ॥ अश्यापर्णान्तगोपवनादेरिति किम् । गौपवनाः । श्यापर्णाः ॥ कुण्डिनाः । अगस्तयः । अत्र “कौडिन्य." [१२७ ] इत्यादिना या ऋष्यणश्च लुप् कुण्डिन्य(ना?)गस्त(स्त्य!)योश्च कुण्डिन-अगस्ति-आदेशौ । प्रत्ययलुपं कृत्वादेशकरणमागस्तीया एवमर्थम् । प्रत्ययान्तादेशे हि कृतेगस्त्यशब्दस्यादेराकाराभावाद् "वृद्धिर्यस्य." [६. १. 4] इत्यादिना दुसंज्ञा न स्यात्तद भावे "दोरीयः" [ ६. ३. ३२ ] इतीयोपि न स्यात् । यदा तु प्रत्ययस्य लुब्विधीयते तदा स्वरादावीयप्रत्यये भाविनि “न प्राग०" [६.१.१३५ ] इत्यादिना प्रतिषेधात्प्रत्ययस्य लुन्न । तथा च सति दुसंज्ञत्वादीयः सिद्धः स्यात् ॥ वसिष्ठा गोतमाः कुत्सा भृगवोङ्गिरसोत्रयः । शंसन्तस्तीर्थमाहात्म्यं राज्ञोर्ध्या अभवन्भृशम् ॥ ३० ॥ ३०. स्पष्टः॥ भृगवः । अङ्गिरसः । कुत्साः। वशि(सि)ष्टाः । गोतमाः। अत्राणः । अत्रयः । इत्यत्रैयणश्च "भृगु०" [ १२८ ] इत्यादिना लुप् ॥ १ ए सी वसिष्ठा. १ सी या आग'. २ ए सी अस्याप०. ५ सी स्पष्टम् । भृ. नामेभि. ३ ए प् । ग. ४ बी सी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy