________________
[ है० ६.१.५२.] चतुर्दशः सर्गः ।
१९३ श्चरणोत्था अनेकाः शक्तय उक्ताः । तद्युक्तैरपि नाडायनादिमहर्षिभिरकृततर्जनाहननाद्या नोस्मांस्तुदसीति वश्यः । ईड्याः स्तुत्याः । ता योगिन्यः ॥ दार्भायणैरप्युदितं स्मृतं शालङ्कायनैश्चेति यदागसि स्त्रीम् । प्रशासतो नांह इति स्मरन्नप्युच्छ्रकमाशु प्रजहार भूपः ॥ ५८ ॥
५८. भूप उच्छूकं स्त्रीषु प्रहरणं नोचितमिति चिन्तयोद्गतघृणं यथा स्यादेवमाशु योगिनीषु प्रजहार । कीदृक्सन् । स्मरन्नपि जाननपि । किमित्याह । आगस्यपराधे सति स्त्री प्रशासतो यन्नांहः स्त्रीहत्योत्थं पापं न स्यादित्येतद्दार्भायणैरपि मुनिभेदैरप्युदितं शालङ्कायनैश्च स्मृतमिति ॥
कार्णायनीव क्षुभिताग्निशर्मा
यणीव राणायनिकेव किं वा । असीति जल्पत्यथ ता निनसः
कोपादुदस्थात्किल तत्र काली ॥ ५९॥ ५९. अथ किलेति सत्ये । तत्र योगिनीषु मध्ये काली पीठस्वामिनी कोपादुदस्थायुद्धायोदयच्छत् । कीदृक्सती । ता योगिनीनिन
क्षु ष्टुमिच्छूः प्रत्येकं जल्पन्ती । कथमित्याह । यथा कार्णायन्याद्या ऋषिपुत्र्यः कातरत्वात्क्षुभ्यन्त्येवं त्वं किमिति क्षुभितासीति ।। किं शौनकायन्यहमस्मि शारद्वतायनी पार्वतिपन्यथो किम् । किं पार्वतायन्युत शंस जैवन्तायन्यथो सेति जहास भूपम् ॥६०॥
१ ए °यनैर. २ बी तो नाह. ३ ए सी वा । आसी, ४ बी भूपः । स्प. सी भूप । स्प.
१बी चितयों. २ बी सी यन्नाहः. ३ ए नक्षुर्न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org