SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [है० ६.१.३७.] चतुर्दशः सर्गः । वायोः पारणेयो यः सूनुस्तस्य हनूमतः । हनूमान्ह्यञ्जनामर्कट्यां परयोषिति वायुना मर्कटरूपेण सङ्गे सति जात इति लोकोक्तिः । हनुमद्दैवतमन्त्रैर्हि भूतशाकिन्यादिप्रभावा हन्यन्ते || स्मार्या हि नः पारशवा वि(बि ?)दास्ते २ सगार्ग्य वात्स्याछलिताः पुरा ये । यद्रूप और्वाग्निरिव प्रतापी संस्पृश्यमानोपि दहत्यसौ नः ॥ ५१ ॥ ५१. स्पष्टः । किं तु नै इत्यत्र " कृत्यस्य वा " [ २. २. ८८. ] इर्ति कर्तरि षष्ठी। अस्माभिरित्यर्थः । पारशवाः पराः पुरुषाद्भिन्नवर्णाः स्त्रियः परस्त्रियस्तासामपत्यानि । विदा विदर्घ्यपत्यानि । यद्यस्माद्धेतोः ॥ सैन्द्रवर्मम् । इत्यत्र " वर्मणोचकात्" [३३] इतीञ् ॥ अचक्रादिति किम् । चाक्रवर्मणेन ॥ १८९ आजधेनविवाकधेनविभ्याम् । अत्र "अजादिभ्यो धेनोः " [ ३४ ] इतीञ् ॥ ब्राह्मणधेनवि ब्राह्मणधेनव । इत्यत्र " ब्राह्मणाद्वा" [ ३५ ] इति वा-इञ् ॥ भौयी । सांभूयि । आम्भी । आमितौजि: । अत्र “भूयः " [ ३६ ] इत्यादिने सस्य लोपश्चैषाम् ॥ 1 शालङ्किः । औदिः । षाडि: । वाङ्गलि: । इत्येते “शालङ्कि ०" 1 इत्यादिनेजन्ता निपात्याः ॥ Jain Education International १ ए वियस्ते संगा°. २ सी 'लिता परा. ४ ए १ सी भूतिशा २ एते । मायां हि. ३ ए न रूपेणत्य ०. “तितक'. ५ ए 'स्त्रियास्ता'. ६ ए द. ७ बी आम्भी । आँ. ८ ए सी °लिः । एते. For Private & Personal Use Only [ ३७ ] www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy