________________
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
पत्यं षाडिः पुरुषविशेषः । यद्वा षण्णां कृत्तिकानामपत्यं षाडि : कार्तिकेयः । पाडिरिवानेकशक्तियुक्तत्वात्पाडिः कश्चिन्नृपः । तथा व्यासस्यापत्यं वैयासकिऋषिः पाण्डववंश्यः कश्चिद्राजा वा । तथा treeस्य गच्छकस्यापत्यं वारुटकिः । एते सर्वेपि महामत्रशक्त्याद्युपेता अपि युष्माभिश्छलिताः । एष तु राजा नैतत्सदृशः किं तु प्रतापी जयसिंहस्तत्तस्मादिह जयसिंहविषय उग्रमन्त्रैः प्रचण्डैरभिचारमन्त्रैः कृत्वा हन्तुं यतध्वमित्यर्थः ॥
१८८
चाण्डालकिं चण्डि यथाथ कार्मारकिं सवैयाघ्रकिमाशिथ प्राक् । विभज्य पौनर्भवमानिशर्म क्युदारनानान्द्रमथो यथा वा ॥ ४९ ॥ भीमस्य पौत्रं जयकेशिनश्च दौहित्रमेनं न तथात्सि किं तु । हतप्रभावा पवमानपारस्त्रैणेयसुनोरिव मन्त्रजातैः ॥ ५० ॥
४९, ५०. हे चण्डि चण्डिकाख्ययोगिनि यथा प्राकू चाण्डा - किं चण्डालापत्यं महामान्त्रिकमाशिथाखादोथाथ वा यथा सवैयाकिं व्याख्यनरभेदापत्ययुक्तं कार्मारकिं महामात्रिकं लोहकारापत्यमाशिथाथो वाथ वा यथा पौनर्भवं पुनर्वाः पुनरूढाया अनन्तरमपत्यमाग्निशर्म क्युदारनानान्द्रमानिशर्मक्या अभिशर्मा ब्राह्मणपुत्र्याः संबन्धिनमुदारं मन्त्रबलेनोद्भटं ननान्दुरपत्यं विभज्यान्ययोगिनीभिः सह विभागेन कृत्वाशिथ । तथा भीमस्य पौत्रं जयकेशिनश्च मयणल्लापितुदौहित्रमेनं जयसिंह किं तु किमिति नात्सि न खादसि । कीदृक्सती । हतप्रभावेव । कैर्मन्त्रजातैर्मन्त्रौघैः । कस्य पवमानपारस्त्रैणेयसूनोः परस्य स्त्री परस्त्री तस्या अपत्यं पारस्त्रैणेयः । पवमानस्य
-
१ एत्यं पु'. ५ सी 'किं चाण्डा'.
Jain Education International
२ एक. ६ ए प्रास्य न.
३ ए वरूढछक. 'मनोधैः .
७ ए
For Private & Personal Use Only
४ बी न्तुं प्रय'.
www.jainelibrary.org