________________
21
विषयानुक्रमणिका । सप्तमः सर्गः। ख. १, पृ. ५१५-५८२ चामुण्डराजस्य वल्लभराजदुर्लभराजनागराजाभिधानां पुत्राणामवाप्तिः । वल्लभराजस्य मालव्यदेशाधिपतेरुच्छित्तये प्रस्थानम् । शीतलिकाख्यरोगपीडितस्य वल्लभराजस्य स्वर्गगमनम् । चामुण्डराजस्य पुत्रशोकः । द्वितीयं पुत्रं दुर्लभराजं राज्ये न्यस्य नर्मदायां शुक्लतीर्थे चामुण्डराजस्य तपश्चरणम् । दुर्लभराजस्य महेन्द्रस्वसुर्दुर्लभदेव्याः स्वयंवराय गमनम् । विवाहोत्सववर्णनम् । नागराजाय च लक्ष्मीनाम्याः स्वसुर्महेन्द्रकृतं प्रदानम् । युद्धाय संनद्धानृपान्हत्वा दुर्लभराजस्य स्वपुरीप्रापणम् ॥
अष्टमः सर्गः । ख. १, पृ. ५८३-६६४ नागराजस्य भीमराजाभिधः सूनुरभूत् । भीमराजस्य राज्याभिषेकः । भीमराजं प्रति चरभाषणम् । सिन्धुपतेर्हम्मुकस्य भीमराजस्य च युद्धम् । हम्मुकपराजयः ॥
नवमः सर्गः । ख. १, पृ. ६६५-७५२ __ भीमराजस्य चेदिदेशं प्रति गमनम् । चेदीशप्रेषितस्य दूतस्य भाषणम् । चेदीशसंमानितस्य भीमनृपस्य स्वपुर आगमनम् । भीमनृपतेः क्षेमराजकर्णराजनाम्नोः पुत्रयोरवाप्तिः । क्षेमराजस्य देवप्रसादाभिधः पुत्रोऽभूत् । कर्णराजस्य राज्याभिषेकः । भीमराजस्य स्वर्गगमनम् । क्षेमराजः सरस्वतीनदीवर्तिदधिस्थलीसमीपस्थमण्डूकेश्वराख्यपुण्यक्षेत्रे तपश्चचार । तत्सेवार्थ गताय देवप्रसादाय कर्णो दधिस्थली ददौ । जयकेशिसुताया मयणल्लायाः कर्णस्य च विवाहः ॥
दशमः सर्गः । ख. १, पृ. ७५३-८१५ . संतानरहितत्वेन दुःखितस्य कर्णस्य लक्ष्मीदेवताभवनगमनम् । तत्र च बहूनि दिनानि लक्ष्मीदेवतोपास्तिः । वर्षर्तुवर्णनम् । तत्र कर्णविलोभनार्थमप्सरसां संप्राप्तिः । कर्णस्याचलचित्तत्वेन भग्नमनोरथाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org