SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ है० ५.४.९०.] चतुर्दशः सर्गः। १७९ गाय गतानेकाकिनो भटाननुजग्मुः । यतो वयममून्वप्रभङ्गायैकाकिनो गतान्भटानवेम साहाय्येन रक्षेमेत्यभिकाङ्गिणः ॥ अन्वग्भूय । अन्वग्भावम् । अत्र "आनुलोम्येन्वचा"। [ ८८ ] इति क्त्वाणमौ ॥ विदध्याम समेषिणः । अवेमेत्यभिकाङ्गिणः । अत्र “इच्छार्थे०" [८९] इत्यादिना सप्तमी ॥ जज्ञेशकप्रारभताभ्यधृष्णोदासीद्विषेहे जघटेर्हति स्म । मिथो विलेभे खनितुं समर्थों वर्ग भेटौधो न मनाक जग्लौ ॥३५॥ ३५. भेटौघो वप्रं खनितुं जज्ञे कोट्टखननविद्यानिपुणत्वाज्ज्ञातवान् । तथा व खनितुं समर्थो बलिष्ठत्वात्प्रभुरत एव खनितुमभ्यधृष्णोदुदयच्छत् । ततः खनितुमर्हति स्म खनितुं शक्यानां वप्रप्रदेशानां प्राप्त्या खननसामग्रीसंपत्त्या च योग्योभूत् । ततः खनितुं मिथो विलेभेन्योन्यं विभागेन स्थापितवांस्ततश्च खनितुं प्रारभत ततश्च खनितुं जघटे संबद्धोभूत्संततं चखानेत्यर्थः । तथा खनितुमासीस्थितः कोट्टान्निपतदत्रभयेन न नष्ट इत्यर्थः । तथा खनितुं विषेहे खननं सोढवान्न खननेन श्रान्त इत्यर्थः । अत एव खनितुं मनाक्स्तोकमपि न जग्लौ न क्षीणहर्षोभूदत एव खनितुमशकत्खननं समाप्तवानित्यर्थः ॥ १ डी भटोघो. १ ए वचनमूत्थप्र. २ सी डी भटोघो. ३ डी क्यामां चप्रदे. ४ डी 'ग्रीप'. ५ सी डी तुमश. ६ ए नष्ट. ७ ए खने. ८ बी ने श्रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy