SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १७४ व्याश्रयमहाकाव्ये [ जयसिंहः ] हृत्पेषमतिबंहीयस्त्वेनान्योन्यं संघर्षाद्धृदयानि पिष्वा तथागाञ् शैलान्प्रवेशं प्रवेशं पर्वतवासित्वेन तदारोहकुशलत्वादभीक्ष्णं प्रविश्य तथोचैर्विषमप्रवेशं कौतुकादिना विषमं विषमं वनगह्वरादि प्रविश्य विषमं प्रविश्य प्रविश्य वा तथा वनं वनं तरुखण्डं तरुंखण्डं वेशं फलादिलिप्सया प्रविश्याथ तथारण्यपातमारण्यपशुवधाद्यर्थमरण्यमरण्यं पतिवारण्यं पतित्वा पतित्वा वापगाश्च नदीश्वापातमापातं तथा सरः सरः पातमपश्च जलानि च पादं पादं पानाद्यर्थमभीक्ष्णं गत्वा तथा द्राक् नद्यादीनां तट तटं प्रपादं विश्रामाद्यर्थमाश्रित्य तथा द्रुमं द्रुमं स्कन्दं छायादिसुखलिप्सया गत्वा तथानध्वपादं मार्गस्य सैन्यैः संकीर्णत्वेन दु:संचरत्वादमार्गममार्ग गत्वामार्ग गत्वा गत्वा वा तथानापतन्तं श्रान्तत्वेनानागच्छन्तं जनमास्कन्दमास्कन्दमश्रान्तत्वेन शीघ्रगत्वादुल्लङ्घयोल्लङ्घय तथालमत्यर्थं फलाद्यवस्कन्दं फलपुष्पादि फलपुष्पादि मुषित्वा फलादि मुषित्वा मुषित्वा वा तथोत्फलद्भिल्ललद्भिः । किं कृत्वा । क्षणासं क्षणमिति सूक्ष्मं कालभेदमतिक्रम्य तथा मुहूर्त द्विघटीमत्यासमतिकम्योत्प्लुत्य क्षणं मुहूर्त वा स्थित्वा पुनरुत्प्लवमानैरित्यर्थः । तथा यामप्रतर्ष प्रहरं प्रतृष्य दृतिवाः खल्लस्थं जलं पिबद्भिश्च । वाःशब्द क्लीबेपि केचित् ॥ १ सी शं प”. २ ए भ व. ३ बी सी डी रुषण्डं. ४ वी सी डी घण्टं. सी डी लाये. ए°रः पा. ७ सी गत्वां दमार्गममार्ग गत्वा गत्वा वां तथा ना. ८ डी मार्गममार्ग गत्वा गत्वा वा. ५ ए सी डी शीघं ग. १० ए दुर्लङ्घयोल'. ११ ए दि मु. १२ ए त्वा वा. १३ सी डी त्वा वा. १४ ए सी डी थोत्पलवद्भिरुद्भिः . १५ ए °ण म. १६ ए विघटा . .७ ए प्रकृष्य. १८ ए त् । वर्ष, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy