________________
[है० ५.४.८०.]
चतुर्दशः सर्गः।
२३. तं नृपमुपासितुं किराताः शय्यात उत्थायं शयनात्त्वरयोत्थाय तथा यत्किं च न गर्दभादिकमप्यारोहमयुरेवं नाम नृपसेवार्थमत्वरन्त यावता प्राभातिकमवश्यकृत्यमश्वादि वाहनं च नापेक्षन्ते स्मेत्यर्थः । नृपोपि [भक्त्या?] भक्तिसूचकतत्संभ्रमातिरेकागमनेन प्रसन्नः संस्तान्किरातानालपति स्म । किं कृत्वा । शिर उत्क्षिप्योर्वीकृत्य भ्रूविक्षेपं ध्रुवौ तत्संमुखं क्षिप्त्वा च ॥ शय्यात उत्थार्यम् । अत्र “पञ्चम्या०" [ ७७ ] इत्यादिना णम्वा ॥ यत्किंचनारोहम् । अत्र "द्वितीयया" [ ७८ ] इति णम्वा ।
भूविक्षेपम् । अत्र “स्वाङ्गेनाध्रुवेण" [ ७९ ] इति णम्वा । [अ]ध्रुवेणेति किम् । शिर उत्क्षिप्य ॥ हृत्पेषमायद्भिरगान्प्रवेशं प्रवेशमुच्चैर्विषमप्रवेशम् । वनं वनं वेशमरण्यपातमोपातमापातमथापगाश्च ॥ २४ ॥ सरस्सरः पातमपश्च पादं पादं प्रपादं च तटं तटं द्राक् । द्रुमं द्रुमं स्कन्दमनध्वपादमास्कन्दमास्कन्दमनापतन्तम् ॥२५॥ फलाद्यवस्कन्दमलं क्षणासं मुहूर्तमौसमथोत्फलद्भिः । यामप्रतष दृतिवाः पिबद्भिः स तैहर्ष प्लवगैर्नु रामः ॥ २६ ॥
२४-२६. स नृपो राम इव तैः किरातैः प्लवगैर्नु कपिभिरिव कृत्वा जहर्ष । यत आयद्भिः सहागच्छद्भिः । किं किं कृत्वेत्याह ।
सी वेश्मम°. डी वेश्यम . २ सी मातापम . डी मापम'. ३ एम् । पला'. ४ ए °त्याशम.
१एनायत्त्व. २ सी "ता प्रभा'. ३ ए °नं चा ना. ४ सी डी "पेक्ष्यन्ते. , एनालिपित म, ६ए य । अ०. सी डी यम् । तत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org