SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६६ ब्याश्रयमहाकाव्ये [जयसिंहः] रीफलादि पिंपन्कश्च रूक्षपेषं रूक्षमस्नेहं कण्टकादि पिंपन्कश्च चूर्णपेष चूर्ण तुषबुसादि पिंषन्सन्गयो निन्द्यो न भवेत् । क सति । मेघे । किंभूते । गात्रस्नायं पुरुषस्नायं चावृष्टे यावता गात्रं पुरुषश्च स्मप्येते तावत्यप्यवृष्टे ॥ गात्रस्नायम् । पुरुषस्नायम् । अत्र “गात्र." [ ५९ ] इत्यादिना णम् ॥ शुष्कपेपम् । चूर्णपेषम् । रूक्षपेषं पिंपन् । इत्यत्र "शुष्क०" [ ६० ] इत्यादिना णम् ॥ करोष्यदश्वाकृतकारमुच्चैर्निमूलकापं कषसीह यन्नः । तद्योगिनीस्तोषय मूढ जीवग्राहं न गृह्णन्ति यथा हि तास्त्वाम् ॥११॥ ११. हे राजन् यदिति क्रियाविशेषणम् । यत्त्वं नोस्मान्नु(नु)च्चैरिह निमूलकाषं कषसि मन्त्रनिर्मूलं कषसि निःसन्तानाः करोपीत्यर्थः । अद एतदकृतकारं करोष्यकृतमकृत्यं करोषि परिणामे कटुविपाकत्वात्तवेदं कर्तुं न युक्तमित्यर्थः । तत्तस्माद्धेतो रे मूढ योगिनीस्तोषय मानयेत्यर्थः । यथा हि स्फुटं ता योगिन्यस्त्वां जीवग्राहं न गृह्णन्ति योगप्रभावबन्धर्बवा जीवन्तं न गृह्णन्तीत्यर्थः ।। अकृतकारं करोषि । जीवग्राहं गृह्णन्ति । इत्यत्र “कृ [ग]ग्रहः०' [६१ ] इत्यादिना णम् ॥ निमूलकापं कषसि । इत्यत्र "निमूलात्कषः'' [ ६२ ] इति णम् ॥ १ ए °गिनीः स्तो'. २ ए °हं निगृह्णन्ति. १ ए सी डी कण्टिकादि पि. २ ए किं ते । गोत्र. ३ ए ता गोत्रं. ४ सी डी श्च साप्ये . ५ एष्टे । गोत्र. ६ एत्र गोत्र. ७ सी डी 'स्मास्तुचै. ८ सी डी सि निस'. ९ ए त्तदेवं क. १० बी कृतम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy