SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ [है० ५.४.४३.] त्रयोदशः सर्गः । १५७ प्यति त्वया सह संगंस्यते । त्वदर्शनात्प्रमोदिष्यते । त्वां श्लाघिष्यते । इत्येवंप्रकारेण हर्षातिरेकादुल्लसिष्यति । उपागते पातालमायाते ॥ आहते भिन्त उच्छिन्त इति वर्त्मनि बाधते । ऊषार्थ यदि मे कोपि सापि हानिस्तवैव हि ॥ १०३ ॥ १०३. स्पष्टः । तस्मान्मार्गे रक्षार्थमपि त्वं मया सह पातालमागच्छेत्यर्थः । आहते । अत्र "आङो यमहनः स्वा(स्वे!)ङ्गे च" [३. ३. ८६. ] इत्यात्मनेपदम् । म इत्यस्य हननादिक्रियाभिव्याप्यत्वेपि संबन्धमाविवक्षया षष्टी ॥ राजाथेत्यवदयूयं यात सिथ्यत नन्दत । इतीहध्वे यद्रक्षार्थ तत्रादेक्ष्यामि रक्षकान् ॥ १०४॥ १०४. अथ राजावदत् । किमित्याह । तत्र वर्मनि रक्षार्थ रक्षकानरानहमादेक्ष्यामि । यद्यस्माद्यूयं यात सिध्यत नन्दतेतीहध्वे पातालं गच्छथ दमनायोषदानेन सिद्धकार्या भवथ लक्ष्मीकी-- दिना वर्धध्व एवंप्रकारेण चेष्टध्व इति ।। आगृह्णीथोपरुन्द्वावरुन्द्वेति प्रयतध्व उ । किं मयीति वदन्रक्षार्थ दिदेशेति राक्षसान् ॥ १०५ ।। १०५. राजा रक्षार्थमिति वक्ष्यमाणरीत्या राक्षसान्बर्बरादीन्दिदेशाज्ञापयत् । कीहक्सन । वदन् । किमित्याह । उ हे नाग यूयं मयि १ ए °ते । अत्र. २ बी "च्छित्त इ°. ३ सी दि ने को°. डी °दि नो कोषि सोपि हानिस्तथैव. १बी उपग'. २ ए सी डी स्वाङ्ग च. ३ ए सी डी म् । इम. ४ बी सी डी भिर्व्याप्य. ५ ए द्यद्यस्मायूयं. बी यथा यूयं. ६ ए राजर'. ७ बी 'न् । उ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy