________________
१५४
व्याश्रयमहाकाव्ये [जयसिंहः ण्णेति भूतकालः प्रत्ययो भविष्यामीति भविष्यत्कालेन प्रत्ययेनाभिसंबध्यमानो यथाकालमपि साधुः। बहुवचनादधात्वधिकारविहिता अपि तद्धिता धातुसंबन्धे सति कालभेदे साधवः स्युः । सुखी भविष्यामि ॥
तवोपं देहि देहीति ददामीति वदन्नथ ।
धेहि धेहीति तमधान्नृपतिः पाणिना भुजे ॥ ९४ ॥ ९४. अथ हे नाग तवोपं देहि देहीति ददामि भृशमभीक्ष्णं वा ददामीत्यर्थः । इति वदन्नृपतिस्तं नागं भुजे पाणिना घेहि धेहीत्यधात्कूपे पतन्तं भृशमभीक्ष्णं वा दधार ।।
याहि याहीति यास्यन्ति मक्षिका ध्वनिनेत्यथ ।
राज्ञा हन्येस्व हन्यस्खेति जघ्ने तटवेतसः ॥९५ ॥ ९५. ध्वनिना वेतसाघातशब्देन मक्षिका भृशमभीक्ष्णं वा यास्यन्तीति हेतोरथ राज्ञा तटवेतसः कूपतटस्थवेतसवृक्षो भृशमभीक्ष्णं वा हतः ॥
नश्यत नश्यतेत्येव नश्यथेतीव तद्धनौ।
उड्डयस्खोड्डयस्वेत्युड्डयन्ते साथ मक्षिकाः ॥ ९६ ॥ ९६. भृशमभीक्ष्णं वा यूयं पलायध्वमितीवेटश इव तद्धनौ वे. तसाघातशब्दे सत्यथ मक्षिका भृशमभीक्ष्णं वोड्डीनाः ॥
तिष्ठत तिष्ठत यूयं स्थेयास्तेत्युरगं ब्रुवन् ।
अत्रान्तरेकरोज्झम्पां कूपे निर्मक्षिके नृपः ॥ ९७ ॥ ९७. स्पष्टः । किं तु तिष्ठत तिष्ठतेत्यत्रेतिशब्दो वाक्यसंबन्धाया१ डी णिनो भु. २ डी न्यस्वे'. ३ सी डी श्यते'.
१ ए 'यं पालय. २ डी शमभी'. ३ ए सी त्यपि म. ४ ए ड्डीनः । ति°.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org