SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [ है. ५.४.२४.] त्रयोदशः सर्गः। १४७ मपि याचिष्यते याचते याचितवानैवेति संभावयामीत्यर्थः । अत एवं च संभावयामि शक्तोसौ म्लानिमपि दास्यति ॥ अथोचे दमनः संभावयामि लवलानि यत् । पश्येर्दातुं पणं चेच्छेन मां निन्दितुमिच्छसि ॥ ७३ ॥ ७३. स्पष्टः । किं तु लवलानि लवलीपुष्पाणि पश्येः शक्तस्त्वं पश्यसि द्रक्ष(क्ष्य)स्यपश्यश्चेत्यर्थः ।। तथाहीन्माह कोप्येत्य यात्रां वाञ्छति हुल्लडः । वाञ्छेदागमनं वोत्र यस्य वारः स गच्छतु ॥ ७४ ॥ ७४. स्पष्टः । परं यात्रां पूजाविशेषम् । हुल्लडो नाम फणी । वो युष्माकं स्वपार्श्व आगमनं वाञ्छति । अत्रैतेषु युष्मासु मध्ये यस्य वारो गमनपर्यायः ॥ शक्यसंभावने । अपि फलानि प्रदर्शयेत् ॥ अशक्यसंभावने । अपि कल्पद्धमानयेत् । अत्र “संभावने०” [ २२ ] इत्यादिना सप्तमी ॥ तदर्थानुक्ताविति किम् । करिष्यत्यन्यदप्येष शक्तः ॥ संभावयामि याचेत पणम् । अत्र "अयदि०" [२३] इत्या दिना वा सप्तमी। पक्षे यथाप्राप्तम् । म्लानिं दास्यति ॥ ददाति । अदात् । इति स्वयं ज्ञेयम् ॥ अयदीति किम् । संभावयामि लवलानि यत्पश्येः । पूर्वेण नित्य सप्तमी । इच्छेः । इच्छसि । वान्छेत् । वाञ्छति । इत्यत्र "सतीच्छार्थात्" [२४] इति वा सप्तमी ॥ १ बी श्येदातुप०. २ ए °नं चोत्र. सी नं वात्र. डी नं चात्र. १ ए सी डी याचिते. २ ए नेववे'. ३ सी डी व सं. ४ सी डी ने इत्या. ५ डी इच्छ°. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy