SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये जयसिंहः] एपोपि हारयेनोत हारयेयं मृशनिति । तेनाहूतोन्यदोद्याने लवलीर्द्रष्टुमभ्यगाम् ॥ ७० ॥ ७०. अहमन्यदा हेमन्ते तेन दमनेनाहूत उद्याने लवलीद्रष्टुमभ्यगाम् । कीहक्सन् । मृशंश्चिन्तयन् । किमित्याह । एष दमनोपि बाढं हारयेत्तथोत बाढमहं न हारयेयं दमनोग्रेपि बाढं हारितवान् हारयत्यतोधुनापि हारयिष्यति । नाहं त्वेवमित्यर्थ इति ॥ उत हारयेयम् । अपि हारयेत् । इत्यत्र “सप्तमी०" [ २१ ] इत्यादिना सप्तमी ॥ लवल्याः प्रेक्ष्य पुष्पाणीत्यध्यायं हन्त माय्यसौ । प्रदर्शयेदपि फलान्यपि कल्पद्रुमानयेत् ॥ ७१ ॥ करिष्यत्यन्यदप्येष शक्तो दमनकश्छलम् । संभावयामि याचेत पणं म्लानिं च दास्यति ॥ ७२ ॥ ७१, ७२. लवल्याः पुष्पाणि प्रेक्ष्येत्यध्यायमचिन्तयं यथा मायी कुहकविद्यया दाम्भिकोसौ दमनोपि लवैलानि लवलीफलान्यपि दर्शयेत्तथापि कल्पद्रुमानयेत् । मायाबलेनासौ त्रिकालविषयेपि लवलानामपि दर्शने कल्पद्रोरप्यानयने शक्तः संभाव्यत इत्यर्थः । तथैष दमनकोन्यदप्यत्यसंभाव्यमपरमपिच्छलं मायां करिष्यति । यतः शक्तश्छले समर्थोत एव संभावयामि पणमपि याचेत शक्तोयमधुना पण१ डी वल्योः प्रे. २ ए सी डी पणम्ला'. १ ए बाढम°. २ ए प्रेक्षेत्य. ३ ए दाभिको. *अनया व्याख्यया 'दर्शयेदपि लवलान्यपि कल्पद्रुमानयेत्' इति मूलेन भाव्यमिति भाति. ४ ए सी डी मनोन्य°. ५ बी लेन स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy