SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १३६ व्याश्रयमहाकाव्ये [जयसिंहः] यद्यधीषे प्रहृष्याम इति नित्यं प्रशासितुः । नाम्ना कनकचूडोहं पुत्रस्तस्य महौजसः॥४५॥ ४५. स्पष्टः । किं तु हे पुत्र यदि त्वमधीषे पठिष्यसि तदा वयं प्रहृष्यामो हर्षिष्याम इत्येवंप्रकारेण प्रशासितुः शिक्षयितुः । तस्य रत्नचूडस्य ॥ यद्येष्यति गुरुग्छन्दोध्येष्ये चेच्छोरमेष्यति । श्वोध्येष्ये तर्कमप्याश्वित्युक्त्या ताँतमर्षयः(महर्षयम् ?)४६ ४६. स्पष्टः । किं तु गुरुरुपाध्यायः । छन्दश्छन्दःशास्त्रम् । चेच्छः कल्ये । गुरुररं शीघ्रमेष्यति । तदाहं तर्कमपि न केवलं छन्दः ॥ यद्यादेक्ष्यस्यथाशंसेधीयीय मि(नि)खिलागमान् । त्वं चेत्प्रसन्नः सिद्धा मे विद्येति गुरुमस्तवम् ॥४७॥ ४७. अहं गुरुमुपाध्यायमस्तवम् । कथमित्याह । हे गुरो त्वं यद्यादेक्ष्यस्याज्ञापयिष्यसि । अथानन्तरं तदेत्यर्थः । अहमाशंसे संभावये निखिलागमानधीयीय पठिष्यामीत्यर्थः । यतस्त्वं चेत्प्रसन्नो मयि प्रसन्नीभविष्यसि तदा मे विद्या सिद्धा सेत्स्यतीति ।। रणे यदि त्वमायासीदैत्यानजैपम् । यद्यधीषे प्रहृष्यामः । अत्र “भूतवच्चाशंस्ये वा" [ २ ] इति भूतवत्सद्वच्च प्रत्ययाः ॥ पक्षे यद्येष्यति गुरुश्छन्दोध्येष्ये ॥ क्षिप्रार्थे । चेच्छोरमेष्यति । श्वोध्येष्ये तर्कमप्याशु ॥ आशंसार्थे । यद्यादेक्ष्यस्यथाशंसेधीयीय निखिलागमान् । इत्यत्र “क्षिप्र०' [ ३ ] इत्यादिना भविष्यन्तीसप्तम्यौ ॥ क्षिप्रार्थे ते न(र्थ एते नेति ?) वक्तव्ये भविष्यन्तीवचनं स्व (श्व)स्तनीविषयेपि भविष्यन्ती यथा स्यादित्येवमर्थम् ॥ १ सी डी °ध्यसि । श्वो?. २ ए 'त्युक्ततो । तम'. ३ सी तातेम°. १ सी डी सन्नी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy