SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [ है० ५.३.१३७.] त्रयोदशः सर्गः । शनैरतितेजस्वित्वाहुःखेनावलोक्यैस्तथा दुःशासनैलिष्ठत्वादुःखेन शिक्षणीयैरत एव दुर्योधनैरन्तर्भूतणिगर्थत्वेन दुःखेन योधनीयैरत एव च दुःखेनाविक्लवा विक्लवाः क्रियन्ते ये तैर्दुरभिभवनीयैरित्यर्थः ॥ अनीपच्छासनो दुर्धर्षणो दुर्मर्षणोपि च । मया सुशासनस्तेरिर्दुरुत्थानं न तत्त्वया ॥ ३८ ॥ ३८. तेरिर्मया सुशासनः सुखेन शिक्षणीयः । किंभूतोपि । अनीषच्छासनोपि तथा दुर्धर्षणो दुरभिभवनीयोपि दुर्मर्षणोपि च दुःसह्योपि च । तत्तस्मात्त्वया न दुरुत्थानं किं तु सुखेन त्वयोदेतव्यमित्यर्थः ॥ ईषद्दानं मयानीपदानेपि त्वत्कृते सखे । सुयानमसुयानेपि दुर्ज्ञानं तद्वदेहितम् ॥ ३९ ॥ ३९. हे सखेनीषद्दाने दुःखेन देयेपि वस्तुनि विषये त्वत्कृते त्वदर्थं मयेषदानं सुखेन दीयते तथासुयानेपि महाकूपादौ सुयानं सुखेन गम्यते तत्तस्माहुर्ज्ञानं दुर्जेयमीहितं स्वाभिप्रायं वद ॥ तेजोदुर्दर्शदुर्धर्षमूचे सोपीति भूपतिम् । शृणु दुःशास दुर्योध दुर्मोशेषमावयोः ॥ ४० ॥ ४०. स्पष्टः । किं त्वावयोः संबन्ध्यशेपं समस्तमर्थाद्वृत्तान्तम् ।। उदङ्क । इति "उदकोतोये" [ १३५] इति निपात्यम् ॥ अतोय इति किम् । उदकोदञ्चनी ॥ आनाय । इति "आनायो जालम्" [ १३६] इति निपात्यम् ॥ १ ए दुर्भ. २ सी णो नं. डी गोपि. ३ डी ते सुखे. ४ डी हिनां । हे. १ ए सी डी क्लवाः क्रि. २ डी गोपि च. ३ सी न । अना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy